________________
5
10
15
20
25
१६८
नृ० १० को०- उल्लास ३, परीक्षण २
तिरश्चैकेन पादेन समुत्प्लुत्य निपत्य चेत् । एकपादेन पृथ्व्यां चेत्तिष्ठेत्तिर्यक्कतिस्तदा ॥ ॥ इति तिर्यकरणम् ॥ २४ ॥
तिर्यक्वस्तिकमुत्य स्यात्तिर्यक् स्वस्तिके कृते ॥ ॥ इति तिर्यक्स्वस्तिकम् ॥ २५ ॥
*
पृथ्व्यां स्थित्वांसयुग्मेन कृत्वा चैवोत्कटासनम् । करणं चाञ्चितं कृत्वा धृत्वाङ्गान्तरमम्बरे ॥ बाहुभ्यां भुवमाक्रम्य भ्रामं भ्रामं च पूर्ववत् । तिष्ठेत् प्रतिदिशं यत्र तत् स्कन्धभ्रान्तमुच्यते ॥ ॥ इति स्कन्धभ्रान्तम् ॥ २६ ॥
*
सूचीनां त्रितयं प्रोक्तं तद्विधा परिकीर्तितम् । भौमाकाशविभेदेन समाद्यन्यतमां यदि ॥ करणानि दधत्यन्ते सूचीं प्राकथितानि तु । सूच्यन्तानि तदा तानि जायन्त इति सूरयः ॥ ॥ इति सूच्य[न्त ] म् ॥ २७ ॥
*
सव्येतरेण पादेन स्थित्वा सव्याहिकुञ्चनात् । सव्यावर्त भ्रमेद्यत्र सा बाह्यभ्रमरी मता ॥ ॥ इति बाह्यभ्रमरी ॥ २८ ॥
*
अस्या एव विपर्यासादन्तर्भमरिका भवेत् ॥ ॥ इति अन्तर्भ्रमरी ॥ २९ ॥
*
स्थित्वैकेनाङ्गिणा भूमौ दण्डवच्चोत्क्षिपेत् परम् । सव्यावर्त भवेद्यत्र सा छत्रभ्रमरी मता ॥ ॥ इति छत्रभ्रमरी ॥ ३० ॥
अङ्घ्रिस्वस्तिकमाधाय तिर्यग्भ्रमणतो भवेत् ॥
॥ इति तिरिपभ्रमरी ॥ ३१ ॥
*
[ तिर्यकरणम्
३५
३६
३७
३८
३९
४१
४२
४३
४४
1 Khandasūci, Viśamasūci and Samasūci- all the three seem to be described here.