________________
एकपादलोहडी] न र० को०-उल्लास ३, परीक्षण २ एकपादप्रयुक्तेयमेकपादादिलोहडी ॥
॥ इत्येकपादलोहडी ॥ १४ ॥ एकपादलुठितं वा। लोहड्येव खस्तिकाविरचिता लोहडी(? कर्तरी )मता॥
॥ इति कर्तरीलोहडी ॥ १५॥ दर्पसरणं प्रोच्यतेऽधुना। वैष्णवं स्थानमास्थाय पृथ्व्यां चेत् पार्श्वतः पतेत् ॥
॥ इति दर्पसरणम् ॥ १६ ॥ जलशायिवदेतत् स्यादासने जलशायिकम् ॥
॥ इति जलशयनम् ॥ १७ ॥ तदेव नागबन्धं स्यान्नागबन्धवदासने ॥
॥ इति नागबन्धम् ॥ १८॥ समपादस्थितो भूमौ शीर्णा संस्पृश्य भूतलम् । परावृत्तिं वितनुते कपालचूर्णितं हि तत् ॥
॥ इति कपालचूर्णितम् ॥ १९ ॥ कपालचूर्णेन जाते वक्षस्युत्तानिते नते। नतपृष्ठं परैरुक्तं वंकोलं करणं त्विदम् ॥
.. ॥ इति नतपृष्ठम् ॥२०॥ कृत्वोत्प्लवनमावर्त्य मध्यं पार्श्वेन मत्स्यवत् । वामेन परिवर्तेचेत्त(?तत)न्मत्स्यकरणं भवेत् ॥
॥ इति मत्स्यकरणम् ॥ २१॥ अलगं विधाय करणं हस्तेनाश्रित्य नर्तकी भूमिम् । परिवर्तेत यदेदं स्पर्शनमुक्तं कराधं तत् ॥
॥ इति करस्पर्शनम् ॥ २२॥ कृत्वोत्लवनं सूचीमन्यतमां खे विधाय चेजते । भूमावूलस्थानं यदोत्कटासनं तदाप्लुतं चैणम् ॥
॥ इत्येणप्लुतम् ॥ २३॥