________________
नृ० र० को०-उल्लास ३, परीक्षण १ [लोलितम् दोलापादां विधायान्येनाङ्गिणा चेत् करोत्ययम्। . उत्प्लुत्य भ्रमरी तूर्णं भवेत् प्रेडोलितं तदा ॥ १४८
॥ इति प्रेडोलितम् ॥ ८१॥
मृगप्लुतां विधायाङ्गिः स्वस्तिकोऽग्रे विरच्यते। हस्तौ स्तो' दोलौ संनतं तदधमस्य गतौ मतम् ॥ १४९
॥ इति सन्नतम् ॥ ८२॥ एकतश्चरणावडीव(१ श्राव)श्चितेऽपसरत्यथ । शिरः स्यान्नामितं तस्य पार्श्वे स्यादुचितं (१ तः) करः॥ १५० एवमङ्गान्तरं यत्र तत्सर्पितमुदाहृतम् । ... नियोज्यमेतन्मत्तस्योन्मत्तस्य परिसर्पणे ॥ - १५१
॥ इति सर्पितम् ॥ ८३॥
वक्षस्युद्वेष्टितो वामः करः स्यात् खटकामुखः। त्रिपातका करः कर्णे पादश्चेदश्चितः कृतः। अग्रे प्रसार्यते यत्र करिहस्तमिदं विदुः॥
॥ इति करिहस्तम् ॥ ८४ ॥ रेचिताद्धस्ततो पादस्तद्दिको हस्तघर्षणात् । गच्छेत् पादान्तरान्मन्दमन्दमन्यो लताकरः। तदा प्रसर्पितं ज्ञेयं व्योमयानगती मतम् ॥
॥ इति प्रसर्पितम् ॥ ८५॥ कृत्वा बद्धामपक्रान्तां चारी च करयोः पुनः । तत्तत् प्रयोगानुगयोरपक्रान्तं प्रकीर्तितम् ॥
॥ इत्यपक्रान्तम् ॥ ८६॥ पताको चेदधोवक्त्राङ्गुलीको शिरसः स्थलम् । परिवृत्त्या समानीय निष्क्राम्योसियोर्द्वयोः । अन्योन्याभिमुखौ कृत्वा खदेहाभिमुखाङ्गुली । नितम्बाख्यौं विधीयेते नितम्बं तु तदा मतम् ॥
॥ इति नितम्बम् ॥ ८ ॥
20
1 AB0 स्तौ। 2 ABO °ख्यौर्विधीयते ।