________________
शुभ्रावलीनकम्] नृ० र० को०-उल्लास ३, परीक्षण १
भूमिश्लिष्टलताहस्ताङ्गुष्ठावनिस्तु पृष्ठतः। .., प्रसृतश्चेन्महापक्षिबुद्धौ (? युद्धे) गृध्रावलीनकम् ॥ १३९
॥ इति गृध्रावलीनकम् ॥ ७३ ॥ कव्यां यदार्धचन्द्रः स्यात् पक्षवश्चितकोऽथवा । वक्षःस्थः खटकाहस्त परपाणिस्थितोऽपरः। सूचीपादस्तदा सूचीविद्धं सूच्यादिषु स्मृतम् ॥
॥ इति सूचीविद्धम् ॥ ७४ ॥ कुञ्चितं पादमुत्क्षिप्य स्थापयेभूमिमस्पृशन्। .. तद्दिक: खटको हस्तो वक्षसि स्यात्तथा परः॥..१४१ शिरःक्षेत्रेऽलपद्मश्च तथैवाङ्गान्तरं क्रमात् ।
10 करणं सूचिसंशं तद्गदितं विस्मये विदा ॥
, ॥ इति सूचि ॥ ७५ ॥ तदैवांकांग(? वैकाङ्ग)रचितमधुसूचीति सूचितम् ॥ १४३ ।।
॥ इत्यर्धसूची-॥ ७६ ॥
१४२
16
करौ खटकदोलाख्यौ चारी च हरिणप्लुता । हरिणप्लुतमेतत् स्याद्धरिणस्य प्लुते गते ॥ ...१४४ ।
॥ इति हरिणप्लुतम् ॥ ७ ॥ षद्धा चारी तथा हस्तादूर्ध्वमण्डलसंज्ञितौ । अधिः सूची विवृत्तं च त्रिकं भ्रमरिकाश्रितम् । करणं परिवृत्तं तत् कीर्तितं नृत्यपण्डितैः॥
१४५20 ॥ इति परिवृत्तम् ॥ ७८ ॥ दण्डपादां द्रुतं चारी कृत्वा नूपुरपादिकाम् । दण्डवद्यत्र हस्तः स्याद्दण्डपादं तदुच्यते ॥
॥ इति दण्डपादम् ॥ ७९ ॥ रेचयित्वा करावूर्वोgश्चिकाचिं निकुञ्य च। ...... भ्रमरी क्रियते चेत्स्यात्मयूरललितं तदा ॥
॥ इति मयूरललितम् ॥ ८ ॥