________________
[विक्षितम्
नृ०र० को०-उल्लास ३, परीक्षण १ विद्युड्रान्तां दण्डपादां चारी कृत्वा क्रमादिह ।
उद्वेष्टितौ तथा चापवेष्टितौ रेचयेत् करौ ॥ .... एकमार्गगतावग्रे पृष्ठतः पादयोः क्षिपेत् । विक्षिप्तमभिनेयः स्यात्तेनोद्धतपरिक्रमः॥
॥ इति विक्षिप्तम् ॥ ६६ ॥ , आक्षिप्य हस्तचरणं त्रिकं यत्र विवर्तयेत् । - करं च रेचयेदन्यं तद्वदन्ति विवर्तितम् ॥
॥ इति विवर्तितम् ॥ ६७ ॥ दोलापादाख्यचार्या चेत् कर्णे स्यात् करिहस्तकः।. 10 क्रियापरः करो यत्र गजक्रीडनकं तदा ॥ .
॥ इति गजक्रीडनकम् ॥ ६॥ वक्षःस्था कटकः पादः सूचीपार्श्व ततं यदा। गण्डक्षेत्रे यदा वामो हस्तः स्यादलपल्लवः॥
सूचीपादोऽथ वा सूचीमुखो वा नृत्यहस्तकः । 15 गण्डसूची तदा प्रोक्त[1] कपोलालङ्कृती भवेत् ॥
॥ इति गण्डसूची ॥ ६९॥ वृश्चिकोतिर्यदा हस्तौ लतारेचितकावुरः । समुन्नतं तदान्वर्थ करणं गरुडप्लुतम् ॥
॥ इति गरुडप्लुतम् ॥ ७० ॥ 20 चार्यातिकान्तया यद्वा दण्डपादाख्यया द्रुतम् ।
उत्क्षिप्य पात्यमानेऽनौ सशब्दं तालिकां करौ । कुरुतो यत्र तत् प्रोक्तं तलसंस्फोटितं बुधैः ॥
॥ इति तलसंस्फोटितम् ॥ ७१ ॥ समस्या रूपृष्ठे निहितः चरणः परः। वक्षःस्थलो मुष्टिहस्तः स्यादर्धचन्द्रः कटीतटे । करणं पार्वजानुः स्यात् प्रोक्तं युद्धनियुद्धयोः॥ १३८
॥ इति पार्श्वजानुः ॥ ७२ ॥
१३६