________________
49
सालितम्] नृ० र० को०-उल्लास ३, परीक्षण १
नितम्बकेशहस्तादिवर्तना दक्षिणे परे। षद्धोऽन्यः करिहस्तः स्यात् पादश्चोद्धट्टितस्तथा । अङ्गान्तरं चेल्ललितं नृत्ये स्यातां विलासिनि ॥
... ॥ इति ललितम् ॥ ३१ ॥ सूचीमुखकरे देहक्षेत्राहरेऽपसर्पति । सूचीपादेऽप्यपमृते चारी चेड्रमरी भवेत् । क्रमादङ्गान्तरेऽप्येवं वलिते वलितं मतम् ॥
॥ इति वलितम् ॥ ३२॥ ऊर्ध्वजानुर्यदा चारी करौ चैव लताभिधौ। इच्छयैकं तयोय॑स्येदुपर्ध्वस्य जानुनः। अङ्गान्तरे पुनश्चैवं दण्डपक्षे प्रकीर्तितम् ॥
॥ इति दण्डपक्षम् ॥ ३३॥ चारी च भ्रमरी कृत्वा ततो नूपुरपाटिकाम् । एकेनैव तु पादेन रेचयेत्तद्गतं करम् । द्वितीयं चेल्लताहस्तं तदा नूपुरमादिशेत् ॥
॥ इति नूपुरम् ॥ ३४ ॥ खटकास्यौ नाभिदेशे हस्तौ स्यातां परावुखौ। सूचीपादोऽन्येन युक्त्वा चार्यापकान्तया युतः। तथैव स्यात् परः पादस्तदा पादापविद्धकम् ॥
॥ इति पादा[प]विद्धम् ॥ ३५ ॥ भुजङ्गत्रासितां चारी कृत्वा हस्तौ च रेचयेत् । वामपार्थे तु तत् ख्यातं भुजङ्गत्रस्तरे' चितम् ।।
॥ इति भुजङ्गनस्तरेचितम् ॥ ३६॥ भुजङ्गवासिता चारी दक्षेशी दक्षिणः करः। रेचितोस्थालताहस्तो भुजङ्गाञ्चितकं भवेत् ॥
॥ इति भुजङ्गाश्चितम् ॥ ३७॥
1 ABO रेचिरम्। 2 ABO स्योलता।
१० नृ० रन.