________________
10
15
नृ० र० को०-उल्लास ३, परीक्षण १ वैशाखं स्थानकं छिन्ना कटी यत्र क्रमात् करौ। अलपद्मौ कटीपार्श्वे तच्छिन्नं करणं भवेत् ॥
॥ इति छिन्नम् ॥ ३८॥ समयाक्षिप्तिका चारी करचोद्वेष्टितो भवेत्।। वलितं च त्रिकं कृत्वा पादयोः स्वस्तिकं तथा ॥ कुर्यात्तद्वद् द्वितीयान्तं (१झं) करौ साकं तथोल्वणौ।। करणं भ्रमरं नाम तद्वद्वत(? तचोद्धत) परिक्रमे ।
॥ इति भ्रमरम् ॥ ३९॥ दण्डपक्षौ करो कुर्याद्दण्डपादां विधाय च । चारी प्रमोदनृत्ये स्यात् करणं दण्डरेचितम् । केचित् प्रयोगमप्याहुरस्योद्धतपरिक्रमे ॥
॥ इति दण्डरेचितम् ॥ ४० ॥ पाणी वक्षास्थितौ तत्र वामश्चेदलपल्लवः । चतुरो दक्षिणोविस्तूद्धहितश्चतुरं भवेत् । अनेनाभिनयेत् सूची विस्मये कचकिस्थिताम् ॥
॥ इति चतुरम् ॥४१॥. विधाय वामे सूची च द्रुतापसरणान्विताम् । तत्पार्श्वे दक्षिणं न्यस्य कटिरेचितमाचरेत् ॥ अथवा भ्रमरी कुर्वन् व्यावृत्तपरिवर्तितौ। करौ कृत्वा चातुरख्यं नर्तको विदधाति चेत् ॥ कटिभ्रान्तं तदा ज्ञेयं यतीनां परिपूरणे। तालान्तरालगानां तु तथा गतिपरिक्रमे । नियोगः प्रोच्यते सद्भिः कटिभ्रान्तविधानगः॥
॥इति कटिभ्रान्तम् ॥ ४२ ॥ उद्वेष्टितविधानेनाधो यात्येकः परस्परः। ऊर्ध्वं यायाद्विप्रकीर्णौ ताहगावृत्तिपेशलौ ॥ उत्तानरेचितश्चैको वक्षाक्षेत्रगतस्ततः। परोग्धोमुखगो यत्र रेचितः स्थानकं गतः (१ ततः)। आलीढं व्यंसितं योज्यं महाकपिपरिक्रमे ॥
॥ इति व्यंसितम् ॥४३॥
30
-..