________________
सर्तमाचा वर्तनाः] नृ० र० को०-उल्लास १, परीक्षण
वक्षाक्षेत्रं श्रय'त्येको येन कालेन पार्थता व्यावृत्त्या हंसपक्षाख्यस्तेनैव परिवर्तितः ।। प्रसारितभुजोऽन्यस्तु तिर्यक पर्यायतः पुनः। एवमङ्गान्तरेणापि क्रिया स्यादण्डपक्षयोः। दण्डवर्तनिकामेनां भट्टतण्डुरभाषत ॥
॥ इति दण्डवर्तना ॥ १७ ॥ पताको मणिबन्धस्थौ शिथिलौ खस्तिको पुनः। कथितौ पल्लवी तौ हि ख्याता पल्लववर्तना॥
॥ इति पल्लववर्तना ॥ १८॥ व्यावर्तितेन इस्तश्चेदलपल्लवशंसिना । खपाचे वक्षसः प्राप्य प्रसारितमुजो भ्रमात् ॥ अरालं दधदन्येन करणेन श्रयेत् परः। तदानीमेव पाव खमन्यो गच्छति पूर्ववत् ॥ मण्डलेन ततोऽप्येव पुरः पार्द्धमण्डलो। तथा तेषां क्रिया सा स्यादर्धमण्डलवर्तना ॥
... ॥ इत्यधमण्डलवर्तना ॥ १९॥ उद्वेष्टितेन निष्पन्नौ स्यातां चेदलपल्लवौ । वक्षसः स्कन्धयोरूवं प्रसारितभुजावुभौ ॥ स्कन्धाभिमुखमाविद्धौ चलिताङ्गुलिवीजनैः। अलपमाभिधौ प्राहुर्यातवर्तनिका परे॥ .. ॥ इति घातवर्तनिका ॥ २०॥ एतावेवाचलौ मूर्धक्षेत्रगौ ललिता मता। खटकास्यौ शिरोदेशे लमानौ तां परे जगुः॥
॥ इति ललितवर्तना ॥ २१ ॥ कूर्परखस्तिकाकारवर्तनादलिता मला। अन्ये व्याचक्षतेऽन्योन्यलग्नाग्रौ खटकामुखौ।। ऊर्ध्वगो पृष्ठमानीतकूर्परौ वलितेति च ॥
॥इति वलितवर्तना ॥ २२॥ 1 ABO यंत्ये। 2 ABO प्राह vide सं. र. अ.७ श्लो. ३४९ पृ. १०९। 3Rg To vide ibid.