________________
*
भाक्षिकमण्डलानि] नु०० को-उल्लास २, परीक्षण -
. [आकाशिकमण्डलानि ।] दक्षिणो जनितां कुर्यात् शकटास्यां क्रमाचंदा। वामोऽलातो दक्षिणस्तु पार्श्वक्रान्तस्तु वामकः ।.. सूची च भ्रमरश्चैव दक्ष उदृत्ततां ब्रजेत् । वामस्त्वालातिकोऽथाजी छिन्नं करणमाश्रितौ ॥ बाह्यभ्रमरकं यत्र वामसङ्गं च रेचितम् । अतिक्रान्तायुतो वामो दण्डपादायुतः परः। अतिक्रान्तं तदा ज्ञेयं मण्डलं शङ्करप्रियम् ॥
॥ इत्यतिक्रान्तम् ॥ १॥ दक्षिणे जनितां कृत्वा दण्डपादां भजेदथ। . सूची च भ्रमरी वामे उबृत्तां दक्षिणे पुनः॥ वामेऽलातां तदा दक्षे पार्श्वक्रान्तां परे पुनः। . भुजङ्गत्रासितां कुर्याद्वामोऽतिक्रान्ततां भजेत् ॥ दक्षिणो दण्डपादोऽथ सूची च भ्रमरी परे। यत्र तद्दण्डपादाख्यं मण्डलं भणितं बुधैः॥
॥ इति दण्डपादम् ॥ २॥ सूचीदक्षस्तथा वामोऽपक्रान्तो दक्षिणः पुनः। पार्श्वकान्तस्ततो वामः समंतामण्डलभ्रमम् ॥ .. कृत्वा सूचीभवन् दक्षोऽपक्रान्तो यत्र मण्डले । तदुक्तं कविभिः कान्तं स्वाभाविकगतौ स्मृतम् ॥
- ॥ इति कान्तम् ॥३॥ सोर्धजानुः स सूचीको दक्षिणश्चरणस्ततः । अपक्रान्तीभवेद्वामः पार्श्वक्रान्तस्तु दक्षिणः॥ पार्थक्रान्तस्ततो वामोऽतिक्रान्तो दक्षिणः पुनः । सूचीवामस्त्वपक्रान्तः पार्श्वक्रान्तस्तु दक्षिणः ॥ . अतिक्रान्तस्ततो वामश्चरणद्वितयं ततः। छिन्नं 'करणमाश्रित्य बाह्यभ्रमरकं ततः। वामश्चेल्ललितं कुर्यात्तदा ललितसश्चरम् ॥
॥ इति ललितसञ्चरम् ॥ ४॥
1 80 पुरे पुनः। 2 50 करमाश्रित्य ।