________________
5
10
15
20
25
१३०
नृ० १० को ० -उल्लास २, परीक्षण ३
पुराटिका मिथों हिभ्यामुत्ताभ्यां निकुहनात् ॥ ॥ इति पुराटी ॥ २८ ॥
*
उद्वृत्तस्यैकपादस्य चरणेन निकुट्टनम् । उद्वृत्तेन निकुहेन सा स्यादर्धपुराटिका ॥ ॥ इत्यर्धपुराटी ॥ २९ ॥
सारिका सा सरत्येकचरणोऽग्रे यदा तदा ॥ ॥ इति सारिका ॥ ३० ॥
*
समाभ्यां चरणाभ्यां तु स्फुरिका सरणं पुरः ॥ ॥ इति स्फुरिका ॥ ३१ ॥
*
अग्रेणाहेः कुञ्चितेन स्थितिः प्रोक्तो निकुट्टकः ॥ ॥ इति निकुट्टकः ॥ ३२ ॥
*
पश्चान्यस्य पुरस्ताच्च चरणश्चेत् प्रसार्यते । भूमिं निकट्टयेत्तेन लताक्षेपस्तदा भवेत् ॥ ॥ इति लताक्षेपः ॥ ३३ ॥
*
अस्खलितिका तिर्यक् स्खलिते चरणे भवेत् ॥ ॥ इति अस्खलितिका ॥ ३४ ॥
*
युगपच्चरणौ यत्र पुरतः पृष्ठतोऽपि च ।
तिर्यक च स्खलितः प्रोक्ता समस्खलितिका तदा ॥ ॥ इति समस्खलितिका ॥ ३५ ॥ ॥ इति पञ्चत्रिंशद्भौमचार्यः ॥
[ देश्य आकाशचायः । ] पुरस्तादंहिमुत्क्षिप्य भ्रामयित्वालिके द्रुतम् । भूमौ चेन्यस्यते प्रोक्ता विद्युद्भान्ता तदा बुधैः ॥ ॥ इति विद्युद्भान्ता ॥ १ ॥
*
कुञ्चितं पादमुत्क्षिप्य वेगाद्विस्तार्य चेत् पुरः । विन्यस्येदवनौ सोता पुरःक्षेपाभिधा बुधैः ॥
॥ इति पुरःक्षेपा ॥ २ ॥
*
1 A एकावरण | BO एकाश्चरो ।
[पुराटी
३५
३६
३७
३८
३९
४०
४१
४२
४३
४४