________________
१९६
नृ०र० को०-उल्लास २, परीक्षण १ [उपविष्टस्थानानि * समस्याऽस्तु सव्यस्य जानुशीर्षसमः परः। उद्धृतो दक्षिणः पादः कुश्चितः शैवमत्र तत् ॥
॥ इति शैवम् ॥ १९ ॥
७२
वामोऽग्रे कुञ्चितः पश्चादन्यः पादस्तु जानुना। पृथिवीं संश्रितो यत्र गारुडं स्यात्तदासनम् ॥
॥ इति गारुडम् ॥ २०॥ वामः समः परो जानुबाह्यगुल्फमिलक्षितिः। चरणो विद्यते यत्र तत् कूर्मासनमीरितम् ॥
॥ इति कूर्मासनम् ॥ २१॥ दक्षिणां तु यदा जवां वामोरोः पृष्ठदेशगाम् । विदधात्युपविष्टः सन् नागबन्धं तदादिशेत् ॥
॥ इति नागबन्धम् ॥ २२ ॥
जानुनी भूमिसंलग्ने संयुते वियुते तथा । सौष्ठवाधिष्ठितं चाङ्गं तदा स्याद्वृषभासनम् ।।
____॥ इति वृषभासनम् ॥ २३ ॥ ॥ इति त्रयोविंशतिर्देशी'स्थानकानि ॥
20
[उपविष्टस्थानानि ।] हस्तावूरू कटिन्यस्तो हृदयं किश्चिदुन्नतम्। .. विस्तारिताञ्चितौ पादौ स्थानं तत् खस्थमुच्यते ॥ ७७
॥ इति स्वस्थम् ॥१॥ आसनं संश्रितस्त्वेकः परः किश्चित्प्रसारितः । शिरः पार्श्वगतं यत्र तन्मदालसमीरितम् । विपदौत्सुक्यनिर्वेदमदेषु विरहेषु तत् ॥
॥ इति मदालसम् ॥ २॥ किश्चिद्वाष्पकले नेत्रे बाहुशीर्षगतं शिरः।
1 ABO °तिदे। 2 ABC एकपरः ef. एकः प्रसारितः किञ्चिदन्योऽद्रिस्त्वासनाश्रितः। सं. र. अ ७. श्लो १०९६.
७८