________________
नु० १० को०-उल्लास १, परीक्षण ३ [स्वाभाविकी नता विकृष्टा सोडासा खभावावस्थिता तु या। . आवेशवर्जिते भावे नासा खाभाविकी मता ॥
॥ इति स्वाभाविकी ॥१॥ निःश्वासोच्छासमन्दत्वे मन्दा नासा शुचिः स्मृता। निर्वेदौत्सुक्यचिन्तासु नासा चैव विकूणिता॥
॥ इति मन्दा ॥२॥ अतिसंकुचिता हास्ये जुगुप्सासूययोः पुनः।
॥ इति विकूणिता ॥ ३॥ नता नासा मुहुः श्लेषविश्लेषितपुटा मता। मन्दविच्छन्नरुचिरे सोच्छ्रसाभिनये च सा॥
॥ इति नता॥४॥ अतीवोत्फुल्लपुटका विकृष्टार्तिभयादिषु। रोषोर्ध्वश्वासविषया भूरिसौरभलिप्सया ॥
॥ इति विकृष्टा ॥५॥ सोच्छासाकृष्टपवना निर्वेदादिषु सा स्मृता। दीर्घोच्छासकरेऽर्थे च सौरभे विनियुज्यते ॥
॥ इति सोच्छासा ॥६॥ ॥ इति षोढा नासा॥
[अनिलः ।] प्रबद्धः स्खलितश्चैव निरस्तो विस्मितस्तथा । उल्लासितो विमुक्तश्च प्रसृताख्यश्चलौ परौ ॥ खस्थाविति नवोच्छासनिःश्वासौ कोहलोदितौ । समो भ्रान्तो विलीनश्चान्दोलितः कम्पितः परः ॥ स्तम्भितोच्छासनिःश्वाससूत्कृतानि च सीत्कृतम् । एवं दशविधः प्रोक्तो मारुतः कैश्चिदाहतैः॥ सशब्दं वदनाद्यस्तु प्रबद्धः सन् विनिर्गतः। स प्रबद्धस्तु निःश्वासः क्षयादिषु नियुज्यते ॥
॥ इति प्रबद्धः॥१॥
15
20
1 B0 विकृणिका।