________________
मयानका] नृ०२० को उल्लास १, परीक्षण
वीरा संकुचितापाङ्गा दीप्ता च समतारका अचश्चला' विकसिता गम्भीरा धीरसंमता ॥ २६ गाम्भीर्यमाधुर्यविलासशोभा
___ "स्थैर्योजऔदार्यमुखानशेषान् । विवृण्वती सत्त्वविशेषभेदान्
प्रसादलालित्यमुखैन मुख्यान् ।।
॥ इति वीरा ॥५॥ अत्यन्तचञ्चलोद्वत्ततारोवृत्तपुटा जडा। दृश्यमग्निमिवास्पृष्ट्वा याति भीत्या भयानका ॥
॥ इति भयानका ॥६॥ मीलल्लोलचलत्पक्ष्मा चलत्तारा मिलत्पुटौ । अपाङ्गौ संसृता दृश्योद्वेगाबीभत्सिका स्मृता ।।
॥ इति बीभत्सा ॥७॥ अन्तर्वहिर्गामिकनीनिकेषन्मिलत्पुटापाङ्गविकाशिनी च । प्रसनशुल्लांशविशुद्धधिष्णाद्भुता स्मृता दृष्टिरियं पुराणः ॥ ३० 16
॥ इत्यद्भुता ॥ ८॥ शृङ्गारादिरसेष्विष्टा दृष्टयोऽष्टौ क्रमादिमाः॥ ३१
॥ इत्यष्टौ रसदृष्टयः ॥ अथ विंशतिरुच्यन्ते व्यभिचारिसमाश्रयाः । निष्कम्पा मलिनापाडा धूसरा पुटतारयोः। शून्यप्रकाशिनी रष्टिः शून्या शून्यविलोकिनी ।।. ३२"
॥ इति शून्या ॥१॥ मलिना किञ्चदाकुञ्चत्पुटा पक्ष्माग्रमन्थरा । व्यावृत्य तारकापाले दृश्याद्वैवर्ण्यशंसिनी॥ दृष्टिः स्याद्विकृते स्त्रीणां दृष्टिविद्भिरुवाहता। विकृतं तदूरोरूणां प्रियेण समयेऽपि यत् । प्राप्तेऽसंलपनं माना[दारोषाद्वेति विनिश्चितम् ॥ ३४
॥ इति मलिना ॥२॥
*
25
___1 B0 अचला । 2 ABC °थैर्यो । 3 ABC °सेधिष्टा।