________________
काव्यादर्शनामसंकेतसमेतः [४ च. उल्लासः ] बीडा चपलता हर्ष आवेगो जडता तथा। गर्यो विषाद औत्सुक्यं निद्रापस्मार एव च ॥३२॥ सुप्तं "विबोधोऽमर्षश्चाप्यवहित्थमथोग्रता। मतियाधिस्तथोन्मादस्तथा मरणमेव च ॥३३॥ त्रासश्चैव वितर्कश्च विज्ञेया व्यभिचारिणः ।। त्रयस्त्रिंशदमी भावाः समाख्यातास्तु नामतः ॥३४॥
निर्वेदस्यामङ्गलमायस्य प्रथममनुपादेयत्वेऽप्युपादानं व्यभिचारित्वेऽपि स्थायिताभिधानार्थम् । तेन निर्वेदस्थायिभावोऽस्ति शान्तोऽपि नवमो रसः । मद आनन्दसंमोहसंभेदः शङ्गारादिभिः, मनसः क्रियाविद्वेष आलस्यं, इात- 10 कर्तव्यतायामनालोचो मोहः । आवेगः संभ्रमः, जडतार्थापतिपत्तिः, गर्व: परावज्ञा, विपादो मनःपीडा, औत्सुक्यं कालाक्षमत्वं, निद्रा मनःसंमीलनं, अपस्मार आवेशः, सुप्तं निद्राया गाढावस्था, विवोधो विनिद्रत्वं, अमर्षः प्रतिचिकीर्षा, न बहिस्थं चित्तं यत्र पृषोदरादित्वाद् अवहित्थमवाहित्था वा इङ्गिताकारगुप्तिः, मतिरर्थनिश्चयः, उन्मादः चित्तस्य विप्लवः । मरणमिति 15 आदीर्घकालपत्यापत्तिरिति केचित् । 'मृङ् प्राणत्याग' इति धात्वर्थविचाराद् विषभक्षणपाशबन्धादीत्यन्ये । वितर्कः संभावना। विविधमाभिमुख्येन स्थायिधर्मोपजीवनेन स्वधर्मार्पणेन च चरन्तीति व्यभिचारिणः । ते हि चित्तवृत्तिविशेषा जन्ममध्ये समुचितविभावाभावाद् न भवन्त्यपि। तथा हि कृतरसायनस्य ग्लान्यालस्यादयो न भवन्त्येव । यस्यापि वा स्युर्विभावबलात्तस्यापि हेतुक्षये 20 क्षीयमाणाः संस्कारशेषतां नानुबध्नन्त्येव ।। नामतस्त्रयस्त्रिंशदिति, संख्यावचनं नियमार्थम् । तेनान्येषामत्रैवान्तर्भावः । यथा, उद्वेगस्य निर्वेदे, दम्भस्यावहित्थे, क्षुत्तृष्णादेग्लान्यादौ । एषां विभावानुभावाः स्वयमूह्याः। तथा हि व्याध्यपमानाधिक्षेपदारिष्टवियोगताडनतत्त्वज्ञानादि विभावो रुदितनिःश्वसितानुपादेयताधनुभावो निर्वेदः । एवमन्येऽपि ॥ ३०-३४॥
___ शान्तोऽपीति । वैराग्यपाक्तनपरिपाकपरमेश्वरानुग्रहाध्यात्मरहस्यपरमात्मपरिशीलनादिविभावो यमनियममोक्षशास्त्रचिन्तनाद्यनुभावो धृतिस्मृतिम त्यादिव्यभिचारी विषयाभिलाषक्षय[:] सर्वतोनिवृत्तिरूपो निर्वेदः स्थायीभूतो