________________
२२८
काव्यादर्शनामसंकेतसमेतः [ ९ न० उल्लासः ] र्थानामिति न युज्यते वक्तुमित्यर्थे सतीत्युक्तम् । सेति सरो रस
इत्यादिवैलक्षण्येन तेनैव क्रमेण स्थिता । 'उदेति सविता ताम्रस्ताम्र एवास्तमेति च' इत्यादौ च पौनरुक्त्यदोषाभावेऽपि न यमकत्वम् ।। सेति, तुल्यक्रमेत्यर्थः । तेन 'सरो रस' इत्यादेः प्रतिलोमानुकोमादीनां च यमकत्वानिवृत्तिः। श्रुतिग्रहणं 'तनुमतोऽनुमतः सचिवैर्ययो' 5 इत्यादीनामसाधुत्वार्थम् । अत्र हि विसर्गस्य उत्वादौ कृते सत्यपि क्रमे तुल्यश्रुतित्वं नास्ति । तथा लोकप्रतीतितुल्यत्वपरिग्रहार्थं च । तेन दन्त्यौष्ठयौष्ठयवकार-बकारादिवर्णभेदे लघुप्रयत्नलघुप्रयत्नतरकृते च भेदे संयोगस्थयोः सजातीययोर्व्यअनयोर्वास्तवे विशेषे यमकबन्धो न विरुध्यते । यथातस्यारिजातं नृपतेरपश्यदवलम्बनम् ।
10 ययौ निर्झरसंभोगैरपरश्यदबलं वनम् ॥ 'अवलम्बन' पाणिग्राहासारादि-मपातपानीयास्वादैः । पानीयानि तनूकुर्वन् । 'अबलं' सैन्यरहितम् । 'वनं' काननम् । अत्रैकत्र व-बौ दन्त्यौष्ठयो, अपरं तु ओष्ठदन्त्यौष्ठयौ । 'अपश्यद्' इत्येकत्र एकः शकारः, अपरत्र द्वौ । एवमन्यदपि ॥ केचिच्च 'नकार-णकारयोरस्वरमकारनकारयोविसर्जनीयस्य भावा- 15 भावयोरपि न विरोधः' इत्याहुः । यथा--
वेगं हे तुरगाणां जयन्नसावेति भङ्गहेतुरगानाम् ॥ नयाशु च रथं धीरसमीरसमरंहसम् । द्विषतां जहि निःशेषं पृतनाः समरं हसन् ।। द्विषतां मूलमुच्छेत्तुं राजवंशादजायथाः ।
द्विषद्ग्यस्त्रस्यसि कथं वृकयूथादजा यथा ॥ वर्णानामिति । बहुवचनमतन्त्रम् । तेन वर्णस्य वर्णयोश्चावृत्तिः यमकम् । वर्णस्य च पदान्तरगतत्वेनावृत्तिन वैचित्र्यदिति तस्मिन्नेव पादे आवृश्यन्तरविचित्रितायां नैरन्तयेणावृत्तौ यमकत्वम् । यथा
नानाकारेण कान्तभ्रराराधितमनोभवा ।
विविक्तेन विलासेन ततक्ष हृदयं नृणाम् ॥ मध्यान्तयोरपि'उदाररचनारोचिभांसुरा राजते कथा' इति ।। वर्णयोः, यथा