________________
. . .10
२२६
काव्यादर्शनामसंकेतसमेतः [ ९ १० उल्लासः ] शब्दगतोऽनुमासः, शब्दार्थयोरभेदेऽप्यन्वयमात्रभेदात् । लाटजनवल्लभत्वौच्च लाटानुपासः । एष पदानुमास इत्यन्ये ।
पदानां सः
स इति लाटानुपासः । उदाहरणम्यस्य न सविधे दयिता दवदहनस्तुहिनदीधितिस्तस्य । यस्य च सविधे दयिता दवदहनस्तुहिनदीपितिस्तस्य ॥४५७॥
पदस्यापि अपिशब्देन स इति समुच्चीयते । उदाहरणम्वदनं परवर्णिन्यास्तस्याः सत्यं सुधाकरः । मुधाकरः क नु पुनः कलङ्कविकलो भवेत् ॥३५८॥
वृत्तावन्यत्र तत्र वा। मानः स वृश्यवृत्त्योश्च
एकस्मिन्समासे भिन्ने वा समासे समासासमासयो| नाम्न:
मातिपदिकस्य, न तु पदस्य सारूप्यम् । उदाहरणम् - तस्मादेव भेदो, न शब्दार्थाभ्यामन्वयमात्रेण भिन्ना इत्यर्थः ॥ अन्य इति 15 वामनादयः । स च पञ्चधा । तत्रायो भेदः पदानामिति ॥ ' यस्य न' इति । अत्र यत् पूर्वार्धे दवदहनत्वं विधेयं तुहिनदीधितित्वं चानुवाचं, तद् द्वयमप्युत्तरार्ध विपरीतं ज्ञेयम् । यस्य निकटे पिया अस्ति तस्य वनवनिरपि शीतल इत्यर्थः । अत्र बर्हनां पदानां शब्दार्थयोरभेदे सकृत्साम्यम् ॥ सुधाकर' इति पदस्य सकर दावृत्तिः। अत्रैकः सुधाकरशब्दो वदनौपम्येन उपात्तः। द्वितीयस्तु भवनक्रियां 20 प्रति कर्तृत्वेनेति तात्पर्यभेदः । 'अत्राक्षपत्रनयने नयने निमील्ये' इत्यादौ तु विभक्तावर्थभेदेऽपि बहुतरशब्दार्थयोरभेदेऽन्वयमात्रभेदालाटानुपास एव, न यमकम् । 'काशाः काशा इवाभान्ति' इत्यादौ तु अनन्वयेन लाटानुमासस्य संकरः । लाटानुपासे च शब्दैक्यं साक्षादेव प्रयोजकं शब्दालंकारत्वात् । अनन्वये चार्थमात्रगतत्वेन व्यवस्थितेः शब्दैक्यमौचिस्याद् आनुषङ्गिकम् ।। नाम्न: 25 सारूप्ये त्रिविधमाह-वृत्ताविति । तत्र वृत्तौ तस्मिमेव समासेऽन्यत्र वा वृत्ती भिन्ने समासे ॥ वृत्त्यवृत्त्योरिति । एकं नाम कृतसमासं, अन्यच्च अकृतसमासं, तयोः साम्यम् ॥ स इति लाटानुपासः ॥ एतदेवाह-एकस्मिन्निलि ॥ प्रातिषदिकस्येति । 'अर्थवदधातुरप्रत्ययः प्रातिपदिकम्' इति संज्ञितस्य ॥ क्रमाद् यथा