________________
२१०
काव्यादर्शनामसंकेतसमेतः [८ अं० उल्लासः ]. कथाशरीरव्यापिषु गुरुज्ञानिपुरोहितामात्यादिषु नायकसहायेषु वर्तमान आरम्भो बिन्दुरिव बिन्दुः; यथा घृतबिन्दुश्च्योतन् श्च्योतन् अग्निज्वलनक्रियाया अविच्छेदहेतुस्तथा छिन्नविच्छिन्नेषु कथाशरीरेषु अनुसंधाता विष्कम्भकप्रवेशकादिबिन्दुः । यथा--
हा वत्सा खरदूषणप्रभृतयो वध्याः स्थ पापस्य मे
हा हा वत्स विभीषण त्वमपि मे कार्येण हेयः स्थितः । हा मद्वत्सल वत्स रावण महत्पश्यामि ते संकटं
वत्से कैकशि हा हतासि न चिरं त्रीन पुत्रकान् द्रक्ष्यसि ।। कथाव्यापिनि सहाये वर्तमानचारम्भो नायकस्योपकारकः स्वेन च .. फलेन फलवान् स पताका; यथा पताका अन्यस्य चिनरूपेण शोभायै भवन्ती 10 स्वस्यापि शौभायै स्याद् , एवमुपनायकादेश्वरितं प्रधानस्यात्मनश्च शोभायें भवत् पताका । यथा
मू| जाम्बवतोऽभिवाय चरणावापृच्छय सेनापती
नाश्वास्याश्रुमुखान् मुहुः प्रियसखान् प्रेष्यान् समादिश्य च । आरम्भं जगृहे महेन्द्रशिखरादम्भोनिधेर्लबने ।
रंहस्वी रघुनाथपादरजसामुच्चैः स्मरन् मारुतिः ॥ लघुः पुष्पादिप्रकरः प्रकरी; सा यथा परार्था शयनादेः शोभायै स्याद्, एवं प्रबन्धस्यापि ऋतुवर्णनादिव्यापारः प्रकरी । यथा. 'मैनाकः किमयं रुणद्धि गगने मन्मार्गमन्याहतम् ' इति ॥
कथाव्यापिन्यां नायकसहायस्यामात्यादे[:] क्रियायामुपलभ्यमानः 20 प्रधानसंबन्धी प्रारम्भफलविशेषो धर्मार्थकामानामन्यः पुरुषार्थ[:] कार्यम् । यथा'यातो विक्रमवाहुरात्मसमतां प्राप्तेयमुवीतले । सारं सागरिका' इति ।
कार्यार्थ च प्रवर्तमाना नायकादयो यं यं क्रियाप्रबन्धस्कन्धमध्यासते • तस्य तस्य दैवपौरुषोभयपाधान्ये क्रमाद् अवस्थाः संस्थाः समवस्था: इति त्रयो व्यपदेशाः। तत्रारब्धस्य कार्यस्य आरम्भयत्नमाप्त्याशानियताप्तिफळागमा 25 इति पश्चावस्थाः। एवमितरेऽपि । एतदुपाधिकथांशानां मुख-प्रतिमुख-गर्भ- . विमर्शन-निर्वहणाख्या बीजबिन्द्वाधर्थप्रकृतिसंधानात् पश्च संधयः । तत्राधिकारिणो नायकादेबींजस्य यत्र निर्देशः तद् मुखम् ।
15
-