________________
[ ८ अ० उल्लास.] काव्यप्रकाशः ।
२१३ नात्यन्तमुद्धताः। नाटकादौ रौद्रेऽपि न दीर्घसमासादयः । घुभयवैचित्र्ययुतो महाकाव्यम् !! 'मुश्लिष्टसंधि' इत्यनेन सर्गादीनामन्योन्यमेकवाक्यतया महावाक्यात्मकस्य प्रबन्धस्योपकारकत्वमुक्तम् । दूतो निसृष्टार्थः परिमितार्थः शासनहरश्च । ' अर्थानुरूपच्छन्दस्त्वम्' इत्यनेन शृङ्गारे द्रुतविलम्बितादि, वीरे वसन्ततिलकादि, करुणे वैतालीयादि, रौद्रे स्रग्धरादि, सर्वत्र 5 शार्दूलविक्रीडितादि निबन्धनीयमित्युक्तम् । यथा संस्कृतेन सर्गबन्धे हयग्रीववधादि, , प्राकृतेनाश्वासबन्धे सेतुबन्धादि ॥
एवमाख्यायिकादौ श्रव्येऽनभिनेये काव्ये औचित्यमुक्त्वा प्रेक्ष्यं यत् काव्यं पाठयं वाक्यार्थाभिनयस्वभावं नाटकादि तद्विषयमाह-नाटकादाविति । न केवलं करुणविप्रलम्भयो रौद्रेऽपि असमासा-मध्यमसमासे एव संघटने । 10 दीर्घसमासादयो हि ध्वन्यात्मभूतरसस्य व्यवधायका विशेषतोऽभिनेयाथै काव्ये। सर्वत्र च प्रसादाख्यो गुणो व्यापी। स हि सर्वरससाधारण इत्युक्तम् । आदिशब्दात् प्रकरण-नाटिका-समवकार-ईहामृग-व्यायोग-डिम-उत्सृष्टिका-अङ्क-प्रहसनभाण-वीथ्यः, काहलायुक्तस्तोटकः सदृकश्च । यन्मुनिःप्रख्यातवस्तुविषयं प्रख्यातोदात्तनायकं चैव ।
15 राजर्षिवंश्यचरितं तथैव दिव्याश्रयोपेतम् । नानाविभूतिभिर्युतमृद्धिविलासादिभिर्गुणैश्चापि ।
अङ्कप्रवेशकाढ्यं भवति हि तन्नाटकं नाम ।। प्रख्यातं वस्तु चेष्टितं, विषयो मालवपश्चालादिर्यत्र । उदात्त इति वीररसयोग्यः, तेन धीरललित-धीरशान्त-धीरोद्धत-धीरोदात्ताश्चत्वारोऽपि 20 गृह्यन्ते । राजान ऋषय इव । तद्वंशे साधुचरितं यत्र । ततो नृपा एव नाटकेषु युज्यन्ते । नायिका तु दिव्याप्यविरोधिनी यथा उर्वशी, नायकवृत्तान्तेनैव तवृत्तान्ताक्षेपात । दिव्यानामाश्रयत्वेनोपायत्वेन प्रकरीपताकानायकादिरूपेणोपेतमुपगमोऽङ्गीकरणं यत्र । भक्तिभावितानां हि देवताः प्रसीदन्ति-इति देवताराधनपुरःसरमुपायानुष्ठानं कार्यम् । यथा नागानन्दे विभूतिभिर्धर्मार्थका- 25ममोक्षविभवैः फलभूतेस्तत्राप्यर्थकामौ सर्वजनाभिलषणीयत्वात् । ऋद्धिरर्थस्य राज्यादेः संपत्तिः। विलासेन कामो लक्ष्यते । तैयुतम् । तेन राज्ञा राज्यं द्विजेभ्यो दत्त्वा वानप्रस्थं गृहीतमिति फलं नोपनिबद्धव्यम् । 'गुणैः' इति प्रतिनायकापनयनप्रधानैः । वस्तुसमाप्तौ विच्छेदा अङ्काः, तैः पञ्चाद्यैर्दशान्तैः, ये च