________________
[ ८ अ० उल्लासः ]
काव्यप्रकाशः ।
ताटस्थ्येन यथा -
लीलावधूतपद्मा कथयन्ती पक्षपातमधिकं नः ।
मानसमुपैति केयं चित्रगता राजहंसीव ॥
फळहक लिखितसागरिकाप्रतिबिम्बदर्शनाद् जातामिलाषस्य वत्सराजस्योक्तिः तटस्थस्येव कविनोपरचितेति श्लेषानुगृहीतोपमालंकारप्राधान्येन 5 प्रस्तुतो रसो गुणीकृतोऽपरिजिघटिषया ॥
--
अनङ्गत्वेऽपि कालेऽवसरे ग्रहणं यथाउद्दामोत्कलिकां विपाण्डुररुचं प्रारब्धजुम्भां क्षणादायासं वनोद्गमैरविरलैरा तन्वतीमात्मनः । returneafaai समदनां नारीमिवान्यां ध्रुवं
१९९
पश्यन् कोपविपाटलघुतिमुखं देव्याः करिष्याम्यहम् ||
4
1
'उद्दामा बहय उद्गताः कलिका यस्याः । उत्कलिकाय रुहुरुहिकाः । क्षणात् तस्मिन्नेवावसरे प्रारब्धा जृम्भा विकासो यया । जृम्भा च मन्मथकृतोऽङ्गमर्दः । श्वसनोद्गमैर्वसन्तमारुतोल्लासैः । आत्मनो कताळक्षणस्य । आयासमायसनम् । आन्दोलना यत्नमा तन्वतीम् । निःश्वासपरंपरा भिश्रात्मन आयासं हृदयस्थितं 15 संतापमातन्वतीम् । सह मदनाख्येन वृक्षेण मदनेन कामेन च । ध्रुव- शब्दश्व भाववकाशदानजीवितम् ।' अत्रोपमा तदनुग्राहकथ श्लेष ईर्ष्याविप्रलम्भस्य माविनश्वर्वणाभिमुख्यं कुर्वन्नवसरे रसस्य प्रमुखीभावदशायामुपनिबद्ध उपकारी ॥ अकाले ग्रहणं यथा
वाताहारतया जगद्विषधरैः इत्यादौ ।
अत्र बाताहरत्वं पश्चाद् वाच्यमप्यादावुक्तमिस्पतिशयोक्तिरनवसरे गृहीता । तथा हि प्रथमत एव प्रथमपादे हेतुत्प्रेक्षया यद् अतिशयोक्तेरुपादानं, न तत् प्रकृतस्य दम्भप्रकर्षप्रभावतिरस्कृतगुणगणानुशोचनमयस्य निर्वेदस्याङ्गतामेति । न हि वाताहारत्वाद् अधिको दम्भस्तोयकणवतं, नापि ततोऽधिकं दम्भवत्वं मृगाजिनवसनम् ॥
गृहीतस्यावसरे स्यामो यथा
रक्तस्त्वं नवपल्लवैरहमपि श्लाध्यैः प्रियाया गुणै
स्त्वामायान्ति शिलीमुखाः स्मरधनुर्मुक्ताः सखे मामपि । कान्तापादतलाहतिस्तव मुद्रे तद्वन्ममाप्यावयोः
सर्व तुल्यमशोक केवलमहं धात्रा सशोकः कृतः ॥
10
20
25
30