________________
.
१९८
काव्यादर्शनामसंकेतसमेतः [८ अ० उल्लासः] लंकारः सातिशयकामावस्थावेशमुद्योतयम् विपलम्ममुपकुरुतः। रूपकाधलंकारश्च यदि समीक्ष्य निवेश्यते तद् लक्ष्यनमव्यङ्गयात्य ध्वनेरङ्गिनथारूत्वहेतुनिष्पद्यते । समीक्षा तु
'तात्पर्ययोगः काले च प्रहत्यागावलंकृतेः । नातिनियूंढिरङ्गत्वे नियूँढावपि योजनम् ॥' ।
5 तात्पर्यरसोपकारकत्वेनालंकारस्य निवेशो न बाधकत्वताटस्थ्याभ्यां
यथा
10
चलापाझा दृष्टिं स्पृशसि बहुशो वेपथुमती
रहस्याख्यायीव स्वनसि मृदुकर्णान्तिकचरः। करौ व्याधुन्वत्याः पिबसि रतिसर्वस्वमधरं
वयं तत्त्वान्वेषाद् मधुकर हतास्त्वं खलु कृती ॥ शकुन्तलावलोकनजनिताभिलाषस्य दुष्यन्तस्येयमुक्तिः । 'हे मधुकर षयमेवंविधाभिलाषचाटुभवणा अपि तत्त्वान्वेषाद् वस्तुवृत्तेऽन्विष्यमाणे हता आयासमात्रपात्रं जाताः । त्वं खल्विति निपातेन अयत्नसिद्धं तवैव चरितार्थत्वम् । तथा हि कथमेतदीयकटाक्षगोचरीभूयास्म, कथमेषास्मदभिप्रायव्यजक 15 रहोवचनमाकर्णयेत् , कथं नु हादनिच्छन्त्या अपि चुम्बनं विधेयास्मेति यदास्माकं मनोराज्यपदवीमधिशेते तत् तवायलसिद्धम् ।' भ्रमरो हि नीलोपलधिया तदाशङ्काकातरां दृशं पुनःपुनः स्पृशति, श्रवणावकाशपर्यन्तत्वाच नीलोत्पलशानपगमात् तत्रैव दंध्वन्यमान आस्ते, सहजसौकुमार्यकातरायाच रतिनिधानभूतं विकसितारविन्दामोदमधुरमधरं पिबसीति भ्रमरस्वभावोक्ति- 20 रलंकारोतामेव प्रकृतरसस्योपगत. इति रसपरत्वेनोपनिबद्धो रसोपकारी ॥
बाधकत्वेन यथा
सस्तः स्रग्दामशोभा त्यजति विरचितामाकुलः केशपाशः __क्षीबाया नूपुरौ च द्विगुणतरमिमौ कन्दतः पादलग्नौ । व्यस्तः कम्पानुबन्धादनवरतमुरो हन्ति हारोऽयमस्याः
क्रीडन्त्याः पीडयेव. स्तनभरविनमन्मध्यभङ्गोऽनपेक्षम् ॥ -अत्र. 'पीडयेव 'इत्युत्मेक्षालंकारोऽङ्गी सन् तदनुग्राहकश्चार्थश्लेषः करुणोचितान् विभावानुमावान् संपादयन् प्रधानस्य संभोगशृङ्गारस्य बाधकस्वेन भातीति न प्रकृतरसोपकारी ।।
25