________________
काव्यप्रकाशः ।
५० उल्लास] अत्र भावस्य भावप्रशमः।
साकं कुरकदृशा मधुपानलीलां कतं महद्भिरपि वैरिणि ते प्रवृत्ते । अन्यामिधायि तव नाम विभो गृहोतं
केनापि तत्र विषमामकरोदवस्थाम् ॥१२२॥ अन मासस्योदयः।
असोढा तत्कालोल्लसदसहभावस्य तपसः कथानां विश्रम्मेष्वय च रसिकः शैलदुहितुः । प्रमोदं वो दिश्यात्कपटबटुवेषापनयने त्वराशैथिल्याभ्यां युगपदभियुक्तः स्मरहरः ।।१२३॥
10 अमावेगधैर्ययोः संधिः।
पश्येत्कश्चिञ्चल चपल रे का त्वरा कुमारी • हस्तालम्ब वितर हह हा व्युत्क्रमः कासि यासि ।
इत्यं पृथ्वीपरिवृढ भवद्विद्विषोऽरण्यवृत्तेः कन्या कंचित्फलकिसलयान्याददानाभिधत्ते ॥१२४॥ 15
अत्र शङ्कासूयाधुतिस्मैतिश्रमदैन्यविबोधौत्सुक्यानां शबलता। . भावस्य मदलक्षणव्यभिचारिभावप्रशमोऽङ्गम् । अत्र भावपरिहाररूपं समाहितमलंकारः, प्रशमसमाहितशब्दयोरेकार्थत्वात् ॥ .. भावोदयो मावस्याङ्ग, यथा 'साकम् 'इति । अत्रारीणां विषमावस्थया प्रासलक्षणभावोदयो रतेरङ्गम् । अत्र भावोदयनामालंकारः । ।
असोढे 'ति । ' तपो मुश्चत्वेषा 'इति भगवतोपेक्षितमित्यसहनत्वं तपसः । विश्रब्धजल्पितमस्याः शृणोमीति च रसिकः अभियुक्त उद्योगेनाक्षिप्तः। . अत्रावेगधैर्ययोः स्पर्धिभावेनोपनिबन्धः शिवविषयाया रतेरजम् । अत्र भावसंधिरलंकारः।
‘पश्येत् कश्चिद्'इत्याशङ्का । 'चपल रे चल गच्छ' इत्यस्या। ' का त्वरा'इति 25 धृतिः । 'अहं कुमारी'इति स्मृतिः । 'हस्तालम्ब वितर' इत्यौत्सुक्यम् । 'हह'इति श्रमः । 'ह'इति दैन्यम्। 'व्युत्क्रमः' इति विबोधः। 'कासि यासि' इत्यौत्सुक्यम् । एषां पूर्वपूर्वोपमर्दैनोपनिबन्धः । सबलता राजनिषयरतेरङ्गम् । भावशवलतैवालंकारः । अन्यत्र तु प्रधाने वाक्यार्थेऽङ्गभूतो रसादिर्गुणीभूतो रसवदाघलंकार
20