________________
(२९)
प्रथमः] भाषाटीकासहितः।
बृहत्पूगीपाक। पूगं दक्षिणदेशजं दशपलोन्मानं भृशं कर्तयेत् तक्षिप्तं जलयोगतो मृदुतरं सङ्कुटय चूर्णीकृतम् । तच्चूर्ण पटशोधितं वसुगुणे गोशुद्धदुग्धे पचेद् द्रव्याज्याञ्जलसंयुतेऽतिनिबिडैदद्यात्तुला? सिताम् ।। दक्षिणी सुपारी दशपल (१६० टंक ) लेवे, उनको कतरकर जलमें भिगोकर कूटडाले पीछे सुखाकर उस चूर्णको कपडछान करे । तदनन्तर सुपारीके चूर्णसे अठगुने दूधमें उस चूर्णको डालकर खोवा करे पीछे उस खोवाको उत्तम घृतमें भूनकर रक्खे पीछे मिश्री ८०८ टंक लेय ॥ १॥ पकं तज्ज्वलनाक्षितिं प्रतिनयेत्तस्मिन्पुनः प्रक्षिपेदद्यात्तत्तदुदाहरामि बहुलादृष्ट्वा वरात्संहितात् । एला नागबला बला सचपला जातीफलालिङ्गिता जातीपत्रकमत्र पत्रकयुतं तच्च त्वचा संयुतम् ॥२॥ विश्वा वीरणवारिवारिदवरा वांशी वरी वानरी द्राक्षा सक्षुरगोक्षुराऽथ महती खजूरिका क्षीरिका । धान्याकं सकसेरुकं समधुकं शृङ्गाटकं जीरकं पृथ्वीकाथ यवानिका वरटिका मांसी मिसिमेंथिका ॥३॥ कन्देष्वत्र विदारिकाथ मुशली गन्धर्वगन्धा तथा कचूरं करिकेशरं समरिचं चारस्य बीजानि च । बीजं शाल्मलिसंभवं करिकणाबीजं च राजीवजं श्वेतं चन्दनमत्र रक्तमपि च श्रीसंज्ञपुष्पैः समम् ॥४॥
Aho ! Shrutgyanam