________________
( २७४) योगचिन्तामणिः। [मित्राधिकार:--
दशमूलासवः । दशमूलं तुलार्द्धं च पौष्करं च तदर्धकम् । हरीतकीनां प्रस्थाई धात्रीप्रस्थद्वयं तथा ॥१॥ चित्रकं पुष्करमितं चित्रकाई दुरालभा। गुडूच्या वै शतपलं विशाला पलपंचकम् ॥ २॥ खदिरस्य पलान्यष्टौ तदद्धं बीजकं तथा । मंजिष्ठा मधुकं कुष्ठं कपित्थं देवदारु च ॥३॥ विडङ्गं चविकं लोधं भाीचाष्टकवर्गकम् । कृष्णाजाजी पिप्पली च क्रमुकं पद्मकं सटी ॥४॥ प्रियंगुः शारिवा मांसी रेणुका नागकेशरम् । त्रिवृता रजनी गना मेषशृङ्गी पुनर्नवा ॥ ५॥ शतं
चेन्द्रयवा मुस्ता द्विपलान् क्वाथयेज्जले। चतुर्गुणे पादशेषे द्राक्षामष्टपलं क्षिपेत् ॥६॥ विंशत्पलं तु धातक्या गुडं पलचतुःशतम् । मधु द्वात्रिंशत्पलं च सर्वमेकत्र कारयेत् ॥७॥ भांडे पुगणे स्निग्धे च मांसीमरिचधूपिते। पृथक् द्विपलिकानेतान् पिप्पली चन्दनं जलं ॥८॥ जातीफलं लवंगं च त्वगेला पत्रकेशरम् । कर्षमात्रं च कस्तूरी दद्यात् पथ्यं निधापयेत् ॥९॥ ततो राजरसं शुद्धं क्षिपेत्कच्छपयंत्रके । कतकद्रुफलं चूर्ण क्षिपेनिर्मलतां व्रजेत् ॥ १०॥ पक्षादूर्ध्व पिबेद्यस्तु मात्रया च यथाबलम् ।।
Aho! Shrutgyanam .