________________
(२६४) योगचिन्तामणिः। [मिश्राधिकार:
वाजीकरणे-चन्द्रोदयरसः। पलं मृदुस्वर्णदलं रसेन्द्रंपलाष्टकं गन्धकषोडशांशम्। शाणैस्तु कासिभवैः प्रसूनैः सर्व विमाथ कुमारिकाभिः ॥ १॥ तत्काचकुम्भे निहितं सुगाढे मृत्कर्पटं तदिवसत्रये च । पचेक्रमानौ सिकताख्ययंत्रे ततो रजः पल्लवरागरम्यम् ॥ २॥ निगृह्य चैतस्य पलं पलानि चत्वारि कर्पूररजस्तथैव । जातीफलं शोषणमिन्द्रपुष्पं कस्तूरिकाया इह शाण एकः ॥ ३ ॥ चन्द्रोदयोऽयं कथितश्च मासं भक्ष्योऽहिवल्लीदलमध्यवर्ती । मदोन्मदानां प्रमदाशतानां गर्वाधिकत्वं श्लथयत्यकांडे ॥४॥ शृतं घनीभूतमतीव दुग्धं मृदूनि मांसानि च मंडकानि । लवानपिष्टानि भवन्ति पथ्यान्यानन्ददायीन्यपराणि चात्र ॥ ५॥ वलीपलिननाशनस्तनुभृतां वयः स्तम्भनः समस्तगदखण्डनः प्रचुररोगपंचाननः । गृहे न रसराजको भवति यस्य चन्द्रोदयः स पञ्चशरदर्पितो मृगदृशां कथं वल्लभः ॥ ६॥ सोनेके वर्क १६ टंक, शुद्ध पाग ८ पल, गंधक १६ पल, कपासके फूल १ पल इन सबको पीस ग्वारपाठेके रसमें "सान आतशी शीशीमें भर कपर मिट्टी कर वालुका यंत्रमें क्रमसे दो दिन अग्नि देवे, जब लाल होजाय तब ग्रहण
Aho! Shrutgyanam