________________
भाषाटीकासहितः। (२.७ ) स्पृकालवंगकंकोलं द्रवैरेभिर्दिकर्षकैः। दशमूलकषायस्य भागाः षष्टयायसस्तथा ॥५॥ यवकोलकुलत्थानां बलामूलस्य चैकतः। निकाथ्य भागो भागाश्च तैलस्य च चतुर्दश॥६॥ ततः पक्के विजानीयात्क्षिप्रं तदवतारयेत् । शुभे पाने विनिक्षिप्तमौषधैस्तु सुगन्धिभिः॥७॥ प्रतीपापं ततः कार्यमेषां संयोजने विधिः। प्रयोज्यं सुकुमाराणामीश्वराणां सुहात्मनाम् ॥ ८॥ स्त्रीणां स्त्रीवृन्दभर्तृणामलक्ष्मीकलिनाशनम् । सर्वकाले प्रयोगेण कांतिलावण्यपुष्टिदम् ॥९॥ जीर्णज्वरं सदाहं च शीतं च विषमज्वरम् । शोषापस्मारकुष्ठघ्नं वंध्यानां च सुतप्रदम् ॥ १० ॥ अशीतिं वातजावोगावातरक्तं विशेषतः। सूतिकाबालमास्थिहतक्षीणेषु पूजितम् ॥ ११ ॥ व्याधितानां हितार्थाय ये तु कंवार्तिपीडिताः। विशेषाद्रूक्षदेहानां विचित्राणां विशेषतः ॥ १२ ॥ विनिर्मितमिदं तैलं चात्रयेण महर्षिणा। न चास्मात्सहसा रोगाः प्रभवंत्यूर्वजत्रुजाः॥ १३॥ अस्य प्रयोगात्तैलस्य जरीन लभते नरः। चन्दनादि त्विदं तैलं लोकानां च हितप्रदम् ॥१४॥ चन्दन, पदमाख, कूठ, उशीर, देवदारु, नागकेशर, तेजपात, इलायची, तज, बालछड, तगर, नेत्रबाला, जायफल, सुपारी,
Aho! Shrutgyanam