________________
६२ - प्रथमाविभक्तिविचारः । वान माच्छब्दार्थ इति । एवं चैत्र त्वे पश्येत्यादौ चैत्र प्रकारकजानेच्छाप्रकारः आशंसाविषयदर्शनकर्ता ज्ञानेच्छाप्रकार इतिशाब्दबोधस्य विशेषण विशिष्टयोरुहे श्यतावच्छेद कविधेययोर्विशेषणभेदाईदेनोपपत्तिः कनक कुण्डलवान् मणिकुण्टलवानितिवत् एव म्लेच्छमुद्दिश्याचायैः प्रयुज्यमानस्य शुङ्गापसरेत्यादिवा कास्य म्लेच्छे सम्बोध्यत्वय मदर्थत्वयोन्निराबाधत या शक्तिश्चमाजन्यस्वसम्भवेऽप्यगृहीतसङ्केतकोद्देश्य कतयोपहास्यत्वं सम्भवत्य व शक्तिबमजन्यत्वस्थोपहास्यत्वाप्रयोजकत्वात् तथासत्यपभ्रंशेऽप्युप हास्यत्वापत्तेः । इच्छाविषयज्ञानस्य सम्बोधनार्थत्वे तत्समवायितावच्छेदकत्वोपलक्षितधर्मस्य वा युष्मत्पदप्रतिनिमित्तत्वेऽम्युपतेऽपि शक्तिबमजन्यत्वं नोपहासप्रयोजकमन्यथा भगवउत्तानस्य सिद्धतया ।
तत्रेच्छाविरहात् भगवत्सदोधाकस्य भगवत्परय ष्म' च्छब्दघटितस्य
खकर्मफलनिर्दिष्टां यां यां योनि बजाम्यहं । तस्यां तस्यां हृषौ केश त्वपि भक्तिर्दृढाऽस्तु मे ॥ इत्यादिवाक्यस्य शक्तिबमजन्यतयोपहास्यत्त्वापत्तेः । अगृहौतपद संकेतकोद्देश्यकवाक्यत्वस्योपहासप्रयोजकत्वे भगवतो गृहौतपदसंकेतकत्वात् । तदुद्देश्यकवाक्यस्य नोपहास्यत्वमिति ज्ञानेच्छायाः सम्बोधनप्रथमार्थत्वे भगवत: संबोध्यत्वं निराबाधमेव । भगवत्प्रत्यक्षस्य सिइत्वेऽपि भगवतः शाब्दत्तानं जायतामितौच्छायाः सम्भवात् । न च भगवतः शाब्दबाधे कथं तादृशौच्छा सम्भवेदिति वाच्यम् । बाधितविषयेऽपौच्छासम्भवात ।।
Aho TShrutavanam