________________
કર
सप्तमीविभक्तिबिचारः । घाने"त्यादौ सप्तम्यर्थै कदेशे काले स्वकटकनाशाधिकरणतया प्रकत्यर्थस्य धार्तराष्ट्रादेरन्वय: निष्ठार्थातीतवं विद्यमान नाशप्रतियोगिकालत्तित्वस्वरूपं नाशेइन्वेति तथा च विद्यमान नाशप्रतियोगिकालत्तिनाशप्रतियोग्यभिन्नानां धार्तराष्ट्रागणां स्वकर्ट कनाशाधिकरणं यः कालस्तत्कालत्तिसुप्तकर्मक यदतीतं हननं तत्कर्ता द्रौणिरित्यन्वयबोध: कालार्थककदन्तार्थविशिष्टप्रकृत्यान्वितः प्रदर्शितसप्तम्यर्थों भावे एवान्वेति न तु नामार्थेऽतो गोषु दुद्यमानासु घट इत्यादौ नान्वयबोधः । यत्त गोषु दुद्यमानास्वागत इत्यादी गोपदोत्तरमातम्या: कर्मत्वमर्थो दोहनादौ धात्व न्वेति कदन्तोत्तरसप्तम्या: कालवृत्तित्वमर्थः शानजादिकृतां भावविहितत्वावर्तमानत्वमर्थस्तथा च गोकर्मकवर्तमानदोहन कालत्यागमनवानित्यन्वयबोध इति तन्न सुन्दरम् । गवादौ दुद्यमानाभेदान्वयबोधस्यापला. . पप्रसङ्गात् भावशानजादिकृदन्तस्य नपुंसकत्वनिय-' मात् गोषु दुद्यमाने समागत इत्यादिप्रयोगप्रसगात् गोषु दुद्यमानास्वागत इत्यादिप्रयोगस्यासाधुत्त्वप्रमगात्सप्तम्याः कर्मत्वार्थकत्वमपि न युज्यते ऽनुशासनविरहात् गेषु यान्तीषु गच्छतोत्यादी . कत्तुं कृदन्तेऽपि सप्तमीप्रयोगादिति । एवं "भुक्तावत्सु च विप्रेषु पिण्डान्दर्भेषु निर्वपदि"त्यादौ ससम्यर्थेक देशे कालेऽतीतभोजन कर्तुः स्वकर्ट कभंजननाशाधिकरण तयाऽन्वयः भोजनस्य तु स्वनाशसमान कालिकतया निर्वापेऽन्वयः विशिष्टान्वयबलादिति । क चि
"AITORSnrutgyanam