________________
૪૨૬
षष्ठीविभक्तिविचारः ।
भयषष्ठप्रयोगे कर्तरि षष्ठो न माधुरिति ज्ञाप्यते तेन नलस्य पाको भौमस्य पाक इत्यादिप्रयोगाणां नानुं पपत्तिः गोपस्य दोह इत्यादिप्रयोगोऽपोष्ट एव अककारयोः स्त्रीप्रत्यययोः प्रयोगे" न शेषे विभाषेति वक्तव्यमिति वार्तिकं खोप्रत्ययेऽप्रत्ययान्ते अकारप्रत्ययान्ते च न कर्तर्यपि षष्ठौनिषेधः शेषे उक्तोभयप्रत्ययान्तभिन्ने स्त्रीप्रत्यये कर्तरि विभाषा षष्ठोभवतीत्यर्थकं तेन बुल्प्रत्ययान्ते स्वोप्रत्ययान्ते कर्तृकर्मणोरुभयोः षष्ठो यथा रुद्रस्य भेदिका जगत: । रुद्रकर्ट कं जगत्कर्मकं भेदनं वाक्यार्थः भावे खुल्विधानात् भेदनमर्थ: । - कारप्रत्ययान्ते स्वौ प्रत्यान्ते तदुभयोः षष्ठौ यथा रुद्रस्य बिभित्मा जगत इत्यादौ मद्रकर्ट का जगत्कर्मकभेदनेच्छा वाक्यार्थः । अप्रत्यादित्यनेन भावेऽकारविधानात् भेदनेच्छार्थः । एवं भदिका देवदत्तस्य काष्ठानां चिकौर्षा यज्ञदत्तस्य कटस्येत्यादौ दर्शितरीत्या वाक्यार्थो बोध्यः । शेषे कर्तरि विभाषा षष्ठी यथा विचित्रा सूत्रस्य कृतिः पाणिनेः पाणिनिना वेत्यादौ अव सूत्रपदोत्तरषष्याः कर्मत्वमर्थः पाणिनिपदोत्तरषष्ठौटतीययोः क
त्वमर्थः कृतावस्वेति । काशिकावृत्तौ सुट्तिथोरितिमवव्याख्यानं सौयुटो लिङवागमौ तेन भिन्नविषयत्वात् सुटा बाधो न भवतीत्युक्तं तत्र बाधशब्दः पुमानेव यदि बाधाशब्दः खीप्रत्ययान्तस्तदा सौयुटइति शेषे षष्ठौ लिङागमिनोऽन्वयानुरोधात् । षष्ठ्यर्थ संबन्धस्यानुषङ्गेण बाधायामन्वयस्तव सुट् हेतुकत्वाभावः प्रतीयते । सुटेतिहेतौ न तु करणे तृतीया ! कर्तराकाङ्क्षाया
Aho ! Shrutgyanam