________________
विभक्त्यर्थनिर्णये ।
-४२१
पपत्तिरन्वये तु तेनैव कर्माकाङ्क्षा विच्छित्तेः कटादेः कर्मतया तत्राग्गया संभवः सूत्रे कृतीतिव्यर्थं षट्यप्रसक्तः कर्मणोऽभिधानात् । अत्रापि कटमिति द्वितीयाऽनुपपत्तिश्वेति चेत् । अत्र शाब्दिकाः । कृतमिति भावक्तान्तमविवचितकर्मकं पूर्वशब्देन समासमासाद्य कर्तृत चितस्य प्रकृतिर्भवतीति कृतपूर्वीशब्दमिदः प्राक्कालिक - करणकर्त्ततिशाब्दबोध मर्जयति तत्र भावक्तान्तकार्ये कटकर्मत्वस्यान्वय इति वदन्ति । अत्र गुरुचरणाः । भावतान्ते कर्मान्वयो न युज्यते । अविवचितकर्मणा एव भावप्रत्ययाद् अन्यथा गतं गम्यते वेत्यादौ भावप्रत्ययान्ते ग्राममिति द्वितीयान्तार्थस्य ग्रामकर्मकत्वस्यान्वयप्रसङ्गात् । कर्मणो विवक्षायां भावप्रत्ययस्य विवचायां कर्मान्वयस्याव्युत्पन्नत्वात् किं च कृतपूर्वीत्यa कृञयें कर्मान्वयोपगमे कृतौत्यनेन कथं कर्मषष्ठीबारणं निष्ठापर्युदामानुसरणे तु किं कृतोत्युपादानेन तस्मात्कृतपूर्वोत्यत्र कृतादिपदार्थपरित्यागेन तडितस्य प्राककालिकभावनावानर्थः । यदि च पक्वपूर्वी वेदानित्यादेः पर्यायत्वमाशङ्क्यते तदा पाकादिभावनावानेव तद्धितार्थः । तहितार्थैकदेशे पाकादौ षठ्यर्थकर्मत्वान्वयवारणाय सूत्रे कृतौत्युपादानम् । ननु विग्रहे समासे च विवचितस्यापि निष्ठार्थस्य कर्तृत हितोत्पत्तौ सत्यां निष्ठाया अविवचाया निरर्थकत्वं युज्यते न तु धातोरतो धात्वर्थे तदुपहितत हितार्थ भावनायां वा कर्मान्वयः सम्भवति तावतैव कृतीत्युपादानसार्थक्यं किं तहितानां पाकादिनानाभाव नावदर्थं कतया नानार्थताऽभ्युपगमेनेति
Aho ! Shrutgyanam
-