________________
विभक्त्यर्थनिर्णये। साध्यतावच्छेदकावच्छिन्नविधेयतानिरूपितोहेश्यतया तादृशोद्देश्यताखरूपसंबन्धवतो मत्वर्थस्य तादात्म्येन वा पक्षतावच्छेदकविशिष्टे पक्षेऽन्वयः पर्वतो वनिहमान् धूमादितिहेत्त्वन्तवाक्ये धूमप्रमाहेतुताकवन्हिज्ञानीयवन्हित्त्वावच्छिन्नविधेयतानिरूपितोद्देश्यतावदभिन्नः पवंत इत्यन्वयबोधः । जलं ट्रव्यत्त्ववत् न गन्धादित्यत्व गनधप्रमाहेतुकं यहटो द्रव्यत्ववानित्यादिद्रव्यत्वज्ञानं तदीयद्रव्यत्वनिष्ठविधेयतानिरूपितोह श्यतायां जले विरहात् तादृशोद्दे श्यत्वस्यात्यन्ताभावस्तबदन्योन्याभावो वा जले ना बोध्यत इति निषेधप्रतीत्युपपत्ति: न च द्रव्यत्वव्याप्यगन्धवान् घटः द्रव्यत्त्वव्याप्यस्पर्शवज्जलमिति समूहालम्बनगन्धप्रमात्मकपरामर्शजन्यानुमित्युद्देश्यताया जले सत्त्वात् कथं तादृशोद्देश्यत्ववदन्योन्याभावस्य प्रतीतिरिति वाच्यं मुख्यविशेष्यताहयाप्रतियोगित्वेन लिङ्गप्रमाया विशेषणीयत्वात्तथा च मुख्यविशेष्यताहयाप्रतियोगिनी घटो द्रव्यत्वव्याष्यगन्धवानित्याकारिकैकमावविशेष्यिका या गन्धप्रमा तज्जन्यानुमित्युद्देश्यताया जले विरहानिषेधप्रतीत्युपपत्तेः मुख्यविशेष्यताइयप्रतियोगिदर्शितसमूहालम्बनस्वरूपगन्धप्रमाजन्यानुमित्युद्द श्यताया जले सत्त्वेऽप्यकिञ्चित्करत्वादिति प्राचीनपथपरिष्कारः सत्यनियामकसंवन्धस्य प्रतियोगितावच्छेदकत्वे ब्रह्मशापं मन्वानानां नबानां मते पर्वतो वन्हिमान् धूमान्न तु द्रव्यत्वादिल्यादौ वह्निज्ञाने द्रव्यत्वप्रमाहेतुत्वस्याभावो नञा न बोधयितुं शक्यते दर्शितसंसर्गस्य वृत्त्य नियामकतया तद
Aho! Shrutgyanam