________________
पञ्चमीविभक्तिविचारः। स्वाभावस्य नञा बोधनसम्भव इति चेन्मैवं यतो म. माजन्यत्वविशिष्टविषयितासंसर्गेण लिङ्गविशिष्टज्ञानस्य लिङ्गपदलक्ष्यस्यार्थतो लिङ्गविषयकज्ञानत्वावच्छिन्नस्य ज्ञानविधेयताविशेषेण ज्ञानेऽन्वय इति द्रव्यत्वप्रमानिठहेतुताया निरूपितवहिविधेयताकज्ञानत्वावच्छिन्नजन्यत्त्वस्य व्यधिकरणसंबन्धतया तत्संबन्धावच्छिन्नप्रतियोगिताकाभावो वहिगुणोभयानुमितो वहिवि. धेयकत्वावच्छेदेन ना बोध्यते बाधकाभावात् । वस्तुतस्तु पञ्चम्या जन्यत्वमर्थोऽस्तु लिङ्गप्रमाया लिङ्गविषयकज्ञानत्वावच्छिन्ननिरूपितत्वेन संबन्धे नान्वयस्तादृशजन्यत्वस्य स्वरूपेण लक्ष्ये साध्यजानेस्वयो व्य त्यत्तिवैचित्र्येण विधयितासंबन्धावच्छिन्नजन्यतावच्छेदकतया साध्येऽन्वेतौति ज्ञानविधे यसाध्यस्य लक्ष्यत्वे तु तादृशजन्यत्वस्य स्वरूपेण ज्ञानेऽवच्छेदकतया साध्ये तदिधेयतायां वाऽन्वय इति द्रव्यत्वप्रमाजन्य त्वावच्छेदकतासंबन्धावच्छिन्नप्रतियोगिताकोऽत्यन्ताभावो ना साध्ये तविध यतायां वा बोध्यत इति दर्शितोद्देश्यतासंबन्धः साध्यज्ञानस्य ज्ञानविधे यसाध्यस्य च तुल्य इति तदन्वय जहनीय इति दर्शितसंसर्गेण लिङ्गप्रमानिष्ठहेतुतायाः साध्यविध यताविशेषणज्ञानेन्वयोपगमे तु ध - मादग्निमानित्यादिपक्षवाचकपदासमभिव्याहृतवाक्येऽपि नान्वयबोधानुपपत्तिः न वा गन्धाच्छब्दाहा न स्नेहवानित्यादिपक्षासमभिव्याहृतवाक्ये निषेधप्रतीत्यनुपपत्तिः । अथ वा साध्वपदस्य साध्यज्ञाने लक्षणा तत्र लिप्रमानिष्ठहेतुताया दर्शितसंसर्गेणैवान्वयः साध्यज्ञानस्य
Aho! Shrutgyanam