________________
विभक्त्यर्थनिर्णये ।
३९.३
साध्यवाचिपदस्य ज्ञाने लक्षणाविरहात् यदपि रूढिप्रयोजनान्यतराभावो लक्षणाबाधकइत्युक्त तत्र दर्शितनिर्देशाद्रढेरेव जागरुकत्वमन्यथा ज्ञापकत्वे पञ्चम्या अपि लक्षणाविरहप्रसङ्गात् । ननु साध्यहेतुपदयोर्ज्ञाने लक्षाणाऽभ्युपगमेऽपि जलं स्पर्शवत् रूपान्न गन्धादित्यादौ निषेधप्रतीत्यनुपपत्तिस्तथा हि नञा न तावज्जले गन्धज्ञाप्यस्पर्शस्यात्यन्ताभावस्तद्ददन्योन्याभावो वा बोधयितुं
शक्यते जलपक्षकभ्भ्रमात्मकगन्धपरामर्थानुमेय स्पर्शस्य सत्त्वात् अत एव स्पर्शज्ञाने गन्धज्ञानजन्यत्वाभावोऽपि न बोधयितुं शक्ा इति न वा गन्धप्रमाऽनुमेय स्पर्शस्यात्यन्ताभावादिस्तथा पृथिबोपचकगन्धप्रमाऽनुमितिविधेयताऽवच्छेदक स्पर्शत्वावच्छिन्नस्य नले सत्त्वात् न च स्पर्शवावच्छिन्नस्य जले सत्त्वेऽपि गन्धप्रमाऽनुमेय स्पर्शव्यक्तेः पृथिवोटत्तेरत्यन्ताभावोऽविकल एवेति निषेधप्रतीत्युपपत्तिरिति वाच्यं तथाऽपि जलं द्रव्यत्ववत् स्पर्शान्न गस्वादित्यव गन्धप्रमाऽनुमेयद्रव्यत्वव्यक्तेर्जले सत्वान्निषेधप्रतीत्यनुपपत्तेः अत एव द्रव्यत्वज्ञाने गन्धप्रमाहेतुकवाभावो न तथा पृथिवोपचकद्रव्यत्वानुमितौ गन्धप्रमाहेतुकत्वस्य सत्वात् । न च कस्याश्चिद्रव्यत्वानुमितेर्ग. न्धमाहेतुकत्वेऽपि सर्वस्या न तथात्वमिति निषेधप्रतीत्युपपत्तिरिति वाच्यं तथासति पृथिवी द्रव्यत्ववती स्पर्शान्न गत्वादित्यादिप्रयोगप्रसङ्गात् स्पर्शलिङ्गकद्रव्यत्वानुमितेर्गन्धप्रमाहेतुकत्वाभावात् निषेधप्रतीत्या पत्तेरत एव द्रव्यत्वे गन्धज्ञानज्ञाप्यत्वाभावोऽपि न प्रतीयते बाधादिति चेत् । अत्र गुरुचरणाः गुरुमत प्रतिज्ञादिहेत्वन्तभागात्
५०
Aho ! Shrutgyanam