________________
विभक्तार्यनिर्णये ।
३५१
प्रवर्त्तन्ते न निवर्तन्ते वेति प्रयोगः दण्डिकट कव्यामारप्रयोज्यस्य यवभक्षण प्रवृत्त्यभावप्रयोजकज्ञानस्याश्रया इति वारिता इत्यन्तस्यार्थः वारयतेर्दर्शितार्थकत्व एवोभयविधप्रयोगः संगच्छते अत एव प्रवृत्तिविघाती वारणमिति काशिका सूचौयमोचितपदं पञ्चम्याः कमित्वमर्थं सूचयति यस्य यवादेर्न केनापि भक्षणं तत्परयवेभ्यो वारयतीति न प्रयोगः यदि प्रयोगस्तदा यवकर्मश्वस्य स्वावच्छिन्नया भक्षणप्रकारितया प्रवृत्तावन्वय इति नानुपपत्तिः एवमेव कूपाद वारयति कारुणिक इति कारुणिकेन वारितोऽप्यन्धो न निवर्तत इति प्रयोगेऽप्यन्वयः इयांस्त विशेषः यदव कृपकर्मकगमनस्य प्रवृत्तावन्वय इति पुष्पेभ्य आतपं वारयतीत्यादावचेतने कर्मणि वारयतेः क्रियाऽभावप्रयोजक व्यापारोऽर्थः क्रियाऽभावस्वरूपफलवतः कर्मत्वात्तद्वाचकपदात् हितौया पञ्चम्याः कर्मत्वमर्थः फलैकदेशकियायामन्वः -ति तथा च पुष्पकर्मकगमनाभावस्य शोषणाभावस्य वाऽऽतपत रनुकूलो व्यापारी वाक्यार्थः न चैवं क्रियाभावप्रयोजक व्यापार एव सर्वत्र वारयतेरर्थोऽस्त्विति वाच्यं वारिता अपि गावो यवं भुञ्जते इति वारितोऽप्यन्धः कूपं गत इति प्रयोगस्यानुपपत्तेः भक्षणादिक्रियाभावस्वरूपफलाश्रयस्य वारा कर्मणो भक्षणादिक्रियाकर्तृत्वानुपपत्तेरिति । ननु वारयतेर्नानाविधार्थकत्वाभ्युपगमे यो गां वारयतीत्यादौ चेतने कर्मा क्रियाभावे च्छा प्रयोज्यव्यापार एवार्थोऽस्तु किं प्रवृत्त्यभावप्रयोजकज्ञाननिवेशनेन तावतैव वार्यमाणा गावो भुञ्जत इत्या.
Aho ! Shrutgyanam
B