________________
पञ्चमीविभक्तिविचारः ।
कूपप्रकारिकाया अन्धसमवेताया: पतननिवृत्तेरनुकूलो व्यापारी वाक्यार्थ इति वदन्ति तन्त्र पुष्येभ्यः श्रातपं वारयतीत्यादावनन्वयापत्ते रातपादेरचेतनस्य निवृत्त्यर्सभवात् कूपादन्धं वारयति न पुनरन्धो निवृत्त इति प्रयोगानुपपत्तेश्च किं च प्रकारित्वमपि न पञ्चम्यर्थः संभवति तथासति क्षेत्रे खले वा यवेभ्यो गां वारयती'त्यव देवादिपदात्पञ्चम्यापन्तः क्षेत्रे यत्रं मा भक्षयमिति निवृत्ती क्षेत्रादेः प्रकारित्वादिति । वस्तुतस्तु तथोपलचितधर्मावच्छिन्नक्रियागोचरप्रष्टत्त्यभावप्रयोजकज्ञाना
.
३५०
-नुकूलव्यापारी वारयतेरर्थस्तथाविधज्ञानस्वरूपफलवत्तया गवान्वादेः कर्मत्वं तथाविधं ज्ञानं तु प्रवृत्तिविषयक्रियानिष्ठस्यानिष्टसाधनत्वस्य कृत्यसाध्यत्वस्य वाडवगाहिबोध्यं तदनुकूलो दण्डोद्यमनादिर्वारयितुर्व्यापारताडनाद्यनिष्टफलको गवादेर्यवभचणप्रवृत्तिं विघटयति यवभक्षणं तु वारयितुरनिष्टसाधनमिति परम्परया 'ताडनाद्यनिष्टसाधनमिति बन्धनादिर्वारयितुर्व्यापारी यवभक्षणे कृत्यसाध्यताबुद्धिं गवादेर्जनयतीति न यभक्षणे प्रवृत्तिः अग्रे कूप इति कूपे मा पतेति वाक्यं तु कूपपतननिष्ठानिष्टसाधनत्वस्य स्मारकमिति नान्धस्य कूपपतनप्रवृत्तिरिति एवं यवेभ्यो गां वारयतीत्यत्र पञ्चम्याः कर्मत्वमर्थः प्रवृत्तिविषयक्रियायामन्वेति तथा च यवकर्मकभक्षणविषयक प्रवृत्त्यभावप्रयोजकज्ञानस्य गोष्टत्त रनुकूलव्यापारो वाक्यार्थः यत्र च गवादेर्य भक्षणादावुत्कटो रागस्ताडनादौ न तथा 'हषो वा तत्र दण्डिना वारिता अपि गावो यवभक्षी
Aho ! Shrutgyanam