________________
३१०
चतुर्थीविभक्तिविचारः ।
हितशब्दार्थः स्वष्टत्तिदुःखाभावनिरूप्यत्वं साधनान्वव्यामयाविन: संबन्धश्चतुर्थ्यर्थः पूर्ववदन्वयबोधः आमयाविवृत्तिदुःखाभावसाधनत्वस्य हितेऽवगमञ्च "चतुर्थी चाशिष्यायण्यमद्रभद्रकुशल सुखार्थहिते" रिति सुत्रेणाशंसाविषग्रहितयोगे षट्या सह वैकल्पिक्याश्चतुर्थ्या विधानेऽपि आशंसाविरहेऽपि चतुर्थीविधायकतया हितयोगे चेतिवार्त्तिकस्य न वैयर्थमिति । नमः शब्दादियोगे चतुर्थी' ज्ञापयति । " नमः स्वस्तिस्वाहास्वधाऽलंवषड्योगाच्च" इति सूत्रं नमः स्वस्तिस्वाहास्वधाऽलंवषडित्येतैः शब्दैर्योगे चतुर्थी भवतीत्यर्थकं पुष्पं शिवाब नमः इत्यव दानकर्म नमः पदार्थः चतुर्थ्याः संप्रदानत्व. मर्थ संप्रदानत्वं तु प्रीतिरेव प्रीतिस्तु जनकतया दानेइम्बेति शिवप्रीतिजनकदानकर्म पुष्पमित्यन्वयबोधः । ब्राह्मणाय गौर्नम इति वाक्यं प्रमाणमपि विहितवाक्यत्वाभावेन न प्रयुज्यते ।
नामगोत्रे समुच्चार्य सम्यक् श्रावितो ददत् । संकीर्त्य देशकालादि तुभ्यं संप्रददे इति ॥ इत्यवचनेन संप्रदद इत्यन्तस्यैव वाक्यस्य दानवाकयवेन विधानात् । ननु ब्राह्मणादिसंप्रदानके दाने नमइत्यन्तवाक्यस्य विहितत्वाभावेनाप्रयोगेऽपि प्रौत्यादिना दाने मित्राय गौर्नम इत्यादिवाक्यप्रयोगः स्यादिति चेन्न । मन्त्रकरणकत्यागकर्मणो नमःपदार्थत्वात् प्रीत्यादिना दाने मन्त्रकरणकत्वाभावात् वैधे हि कर्मणि मन्त्राणां करणत्वं तच्च त्यागा दिवैध कर्मजन्यं परमापूर्व प्रधानापूर्व वा प्रत्यङ्गापूर्वहारा जनकत्वमत एव जुहुयाद्दारु
Aho! Shrutgyanam