________________
चतुर्थीविभक्तिविचारः। वच्छेदेनान्वेति ततस्त्वत्पदार्थस्य हिताहितान्य तरसाधनत्वमर्थतः प्रतीयत इत्याहुः । अत्र चतुर्थ्याः साहभ्यमर्थ: नञ्पदं तात्पर्यग्राहकं व चिन्नजपदं विनाऽपि प्रयोगः यथा"टणाय मत्वा रघुनन्दनस्तद्रक्षः प्रधानं प्रधनान्निरास्थत् इति ट्टः । यथा वा । “टणाभ्यां मन्यते कामक्रोधौ यः पञ्च कारयन्” इति श्रीहर्ष इति वदन्ति । युज्यते चैतत् ।
सहशत्वं गादौनामनुक्ते मन्यकर्मणि । द्वितीयावच्चतुर्थ्याऽपि बोध्यते बाधितं यदि ॥ इत्यापिशलिस्मरणात् बाधितमिति अयुक्त सादृश्यवोधकं तेन मुखं पनं मन्ये इत्यत्र युक्तसादृश्ये न चतुर्थी एवं न त्वां गाय मन्ये इत्यादौ नञा सहिते शून्ये वा प्रयोगे चतुर्थ्याः सादृश्यमर्थस्तच्च मन्यकर्मणि त्वत्यदान्वेति तथा च वृणसदृशत्वत्कर्मताकमननाश्रयो ऽहमित्यन्वयबोधः ततोऽनाहतस्त्वमिति बोधः स शाब्द आनुमानिको मानसो वेत्यन्य देतत् प्राथमिकन्वयवोधेऽनादरी न मारते अत एव काशिकायामनादरे गम्यमाने इत्युक्तं न त्वनादरेर्थे ऽनादरबोधकनादिपदसचे वेत्युक्तम् । मन्य कर्मणि सादृश्यान्वयबोधने चतुर्थ्या हितीयासमानवचनत्वं तन्त्रमतस्तणाभ्यामिति दर्शितप्रयोग उपपद्यते नापपद्यते च तणाभ्यां न त्वां तृणाय न युवां वा मन्ये इति प्रयोगः । सूबे प्राणिवित्यत्र नौका कान्नशृगालवर्जेवि तिवक्तव्यमिति वार्तिकेन प्राणिन: परिभाषितास्तेन न त्वां नावं काकमन्नं शृगालं बा मन्ये इत्यत्र न चतुर्थी प्राणित्वेऽपि न त्वां शुने को- .
Aho! Shrutgyanam