________________
विभक्त्यर्थनिर्णये ।
२९३ शृणोतेश्च याञ्चापूर्वकः स्वीकारो देयत्वेनाभ्युपगमोऽर्थः याञ्चान्वयिकर्ट त्वं चतुर्थ्यर्थः द्विजाय गां प्रतिशृणोत्याशृणोति वेत्यत्र गोकर्मत्वं याचनस्वीकारयोरुभयोरन्वेति तथा च हिजकर्ट कगीकर्मकयाचनपूर्वको गोकर्मकः देयत्वेनाभ्युपगमो वाक्यार्थः यत्तु ।। ... संविदागूः प्रतिज्ञानं नियमाश्रवसंश्रवाः । - अङ्गीकारोऽभ्युपगमप्रतिश्रवसमाधयः ॥ इति नामलिङ्गानुशासनमभ्युपगममात्रार्थकसंश्रवपयत्वेन प्रतिश्रवाशवी पपाठ तहिशेष्यस्वरूपैकदेशपयितां ज्ञापयतौति संप्रदायः । वस्तुतस्तु प्रतिशृणोतेराशृणोतेचाभ्युपगमोऽर्थः स च क्रियागोचरकर्तव्यत्वाध्यवसायः क्रिया च क चिहानरूपा क्वचिदन्यादृशी अत एव नामलिङ्गानुशासनसंमता संशवप्रतिज्ञानपर्यायता प्रतिश्रवाश्रवयोरुपपद्यते चतुर्थ्याः प्रयोजकतयोपलक्षितो व्यापारोऽर्थः स च क चित् याञ्चास्वरूपः यत्र प्रतिशणोतेर्दानगोचरकर्तव्यत्वाध्यवसायोऽर्थः क चिदन्यादृशः यत्र दर्शितधातोरन्यादृशोऽर्थः अत एव प्रतिपूर्व आपूर्वश्च शृणोतिरभ्युपगमे प्रतिज्ञाने वर्तते स चाभ्युपगमः परेण प्रयुक्तस्य सतो भवति तत्र प्रयोक्तो पूवस्याः क्रियायाः कर्ता संप्रदान संत्रो भवतीति काशिका एवं विप्राय गां प्रतिशृणोति आशृणोति वा राजत्यत्र प्रतिशृणोतेर्दानकर्तव्यत्वाध्यवसायोऽर्थः चतुर्थ्या याञ्चारूपो व्यापारोऽथ: दानं परस्वत्वानुकूल: स्वत्वध्वंस. याचा लिप्सा प्रतिग्रह इति यावत् प्रकृत्यर्थस्य याञ्चायां कट तयाऽन्वयः याञ्चायाः प्रयोज्यतया दाने तहोच
Aho! Shrutgyanam