________________
विभक्त्यर्थनिर्णये।
२७९ भ्यां सचावन्वय: सामानाधिकरण्यनिवेशात् देवदत्तस्यान्यदीयसुखच्छाविषय मोदके न तथापयोगः । एवं देवदत्ताय रोचते मोदक इत्यत्र देवदत्तसुखस्य समानाधिकरणोद्देश्विनौ योत्कटेच्छा तहिषयो मोदक डूत्यन्वयबोधः । अत एव सूत्रे पोयमाणशब्दोपादानम. यंवदन्यथा रुच्यर्थानां रुचिमानित्येव मुनि: सूत्रयेत्तावतैव समवायित्वस्य समेवतत्वस्य वा चतुर्थता सम्भवादिति पोयमाणगृहणं तु देवदत्ताय रोचते मोदकः पथि दूत्यत्र पथ: संपदानतानिषेधार्थमिति । कतिपयधातुयोगे जीप्स्यमानस्य संपदानता जापयति । "श्लाघन्हुस्थाशपां चौस्यमानः” दूति सूत्रं प्लाघि तिस्तिष्ठति: शपिश्चामौषां धातूनां योगे चौप्स्यमानी योऽर्थस्तत्कारकसंखं भवतीत्यर्थक ज्ञोप्स्यमानो ज्ञापयितुमभिपत इति काशिका जौप्यमानग्रहणं देवदत्ताय शलाघते पथि दूत्यव पथः संपदानतानिषेधार्थमिति अत्र श्लाघेसत्कर्शप्रकारकपतिपत्त्यनुकूलो व्यापारः शब्दो वाऽर्थ: हुतेरदर्शनानुकूलो व्यापारी,र्थस्तितेस्तङन्तस्य प्रकाशानुकूलो व्यापारः संमुखावस्थानादिरर्थः शपेरपकर्षपतिपत्त्यनुकूलो व्यापारः शब्दो वाऽर्थः नरपतये श्लाघते दूत्यत्रोत्कर्ष प्रकारकपतिपत्तिस्वरूपे फले विशेष्यत्वस्वरूपे फले विशेष्यत्वस्वरूपं विशेष्यतासंबन्धावच्छिन्नाधेयत्त्वस्वरूपं वा कर्मत्वं वा चतुयर्थोऽन्वेति जाराय निन्हते इत्यत्नादर्शने विषयतासंबन्धावच्छिन्नपतियोगिताके चाक्षुषपतियोगिके ज्ञानसामान्यपतियोगिके वा
Aho! Shrutgyanam