________________
२७६
चतुर्थीविभक्तिविचारः। नके श्वशुराय दाने पत्न्यै ददातौतिप्रयोगापत्तेश्च एवं जुहोतियोगे कृत्तिकादेवताकहोमे वह्निप्रीतिजनके वकये जुहोतीतिप्रयोगापत्ते: विष्णुप्रीत्यर्थ क्रियमाणे दाने होमे च विष्णवे ददाति जुहोति वेति प्रयोगापत्तेश्च न च तवापि जुहोत्यर्थप्रयत्ने विष्णुप्रीतेरुद्देश्यत्वाज्जुहोतियोगे विष्णवे जुहोतीतिप्रयोगापत्तिरिति वाच्यम् । यतो यदेवताको होमस्तत्यौतिरेव जुहोत्यर्थप्रयत्नस्योद्देश्यति विष्णुप्रीतिस्तु होमदेवताप्रौतेः फलमिति विष्णुप्रीतीच्छाया दर्शितविषयतासंबधेन ददातिफले गोनिष्ठविप्रखत्वे जुहोतिफले हविनिमुवङ्गिसंयोगे सत्त्वात् दर्शितप्रयोगो दुर्बार इति न च संबन्धघटकविषयताधिकरणं जनकत्वं साक्षाज्जनकत्वं विवक्षितमिति न दर्शितप्रयोग इति वाच्यम् । तथासति गोनिष्ठविप्रस्वत्वमपि विप्रौयस्य प्रीतिपदार्थस्य सुखस्य न साक्षाज्जनकमिति बिप्राय गां ददातोति प्रयोगानापत्तेः गोनिष्ठस्वत्वस्य दुग्धादानादिहारा विप्रसुखजनकत्वात् । एवं वृक्षायोदकमित्यत्रापि पुष्टौच्छा न चतुर्थ्यर्थ: गौरवात् वृक्षपुष्टीच्छया क्रियमाणे कूपखनने जलोत्पादनेन वा वृक्षाय कूपं खनति जलमुत्पादयति वेतिप्रयोगापत्तश्च आत्मने वै पुवः प्रियो भवतीत्यनात्मप्रीतीच्छा न चतुर्थ्यर्थः पुबप्रियभावस्यात्मप्रीतीच्छाऽप्रयोज्यत्वात् नाप्यात्मप्रौतिभंवत्यर्थानन्वयात् तस्माद्यथात्मने वै पुत्वः प्रिय दूत्यत्र क्रियाशुन्यवाक्ये तादर्थ्य चतुर्थ्या उपकारकत्वमर्थः प्रिय पुत्रवति तथा दर्शितवाक्येऽपि पत्ये शेते इत्यत्र पतिप्रीतीच्छा न चतुयर्थ: गौरवात् पतिप्रीतीच्छया क्रि
Aho! Shrutgyanam