________________
कारकसामान्य विल्लारः कत्वेऽपि नाव्याप्तिः कृतान्यषष्यर्थभिन्नत्वे मति क्रिया: न्वयित्वस्वरूपस्य कारकत्वस्य कारकलक्षणत्वेनाभ्युपगमाद्दर्शितषयाः कृाक्तत्वेन तदर्थस्य निरुक्तकारकत्वानपायादिति चेन्न । सुराणां पातासावित्यादौ -
तथेषषष्ठया अर्थे ऽतिव्याप्तेस्तत्र निरुक्तकारकत्वस्य सत्वात् । न च धात्वर्थेतरान्वयायोग्यत्वमस्तु विशेषणं तथा च शेषषष्ठार्थस्य धात्वर्थेतरस्मिन् राजः पुरुष इत्यादौ पुरुषादावन्वयानातिव्याप्तिरिति वाच्यम् । एवं सति हितीयाद्यर्थकारकेऽव्याप्तेः । दण्डं दधातीत्यादौ यादृशोऽधिकरणादिदितौयार्थो धारणान्वयी तादृशस्यैवाधिकरणादेहितीयार्थस्यानुदण्डं जातिरित्यादौ जात्यन्व यात्। किञ्च धात्वर्थेतरान्वयायोग्यत्वं धात्वर्थतरान्वययोग्यत्वमविज्ञाय दुग्रहं तच्च कारकान्यत्वमेव तथा सत्यन्योन्याश्रयः स्यात् तादृशान्वयायोग्यत्वस्वरूपकारकत्वज्ञानस्य तादृशान्वययोग्यत्वरूपकारकान्यत्वज्ञानस्य च परस्पराधौनत्वात् । एतेन धात्वर्थान्वयायोग्यत्वं शेषत्वं शेषभिन्नत्वं कारकत्वमित्यपि परास्तम् । धात्वर्थान्वयायोग्यत्वस्य कारकत्वस्वरूपाग्रहे दुर्ग्रह त्वेनान्योन्याश्रयप्रसङ्गात् । किं च शेषत्वमपि नेदृशं भवति मम प्रतिभाति कान्तस्य त्रस्यतीत्यादौ शेषस्य धात्वर्थान्वयित्वात् । एतेन धात्वर्यान्वितबर्थत्वं कारकत्वं विभक्त्यर्थस्य विभक्त्यर्थद्वारक क्रियान्वयित्वं कारकत्वं विभक्ति प्रकृत्यर्थस्येत्यपि परास्तम् । दार्शतषष्ठया अर्थे प्रकृत्यर्थं चातिव्याप्तः। यत्त्वपोदानाद्यन्यतमत्वं कारकत्वं नात: काप्यव्यास्यतिव्याप्तौ इति तन्न अपादानत्वादेरपि क्वचित्षष्ठार्थत्वात् । किं चापादानत्वादिकमपि नैकं ध्रुवत्वासोढत्वादिभेदेन बहुविधत्वात् इति
Aho ! Shtutgyanar