________________
२७४ । चतुर्थीविभक्तिविचारः । त्वनाहन्यमानः करश्चपेटार्थः अभिषातफलकप्रयत्नी ददात्यर्थः तत्र प्रयत्ने चतुयर्थस्य व्यथायाः शिष्यविशेषिताया अन्वयः इत्थं दर्शितानां चतुर्थ्यर्थानां सन्दर्शितेन सं. सगेंण धात्वर्थ एवान्वय इति कारकत्वं निष्प्रत्यूहमिति शाब्दिकास्तु ददाते: स्वत्वध्वंसः स्वत्वं च फलविधयाऽर्थः त्यागो व्यापारविधया फलइयमेकेन कर्मणा साकासमिति गवादेः कर्मणस्तवान्वयः तेन पुवराज्यकामनया दोयमानायां गवि राज्यं ददातौति न प्रयोगः चतुी तु धात्वर्थफलाम्वयिप्रीत्यादिफलान्तरमभिधत्ते तेन ब्राम्हणाय गां ददातौल्यत्र गोरत्तेः ब्राह्मणप्रौतिजनकस्वत्वस्य स्वध्व सस्य चानुकूलस्त्यागो वाक्यार्थः प्रौतिमजनयत्यपि स्वत्वे यदि ददातोति प्रयोगस्तदा प्रौतीच्छा चतुर्थः सा स्वोद्देश्यपौतिजनकत्वेन संबन्धेन धात्वथफले स्वत्वेऽन्वेति प्रौतीच्छायां प्रकृत्यर्थस्य ब्राह्मणादेः प्रौतिनिष्ठविशेष्यतानिपितसमवेतत्वनिष्ठप्रकारतावच्छेदकतया प्रौतिनिष्ठोद्देश्यतावच्छेदकतया संबन्धेनान्वयः अत एव कर्मणा यमभिप्रेतीति सूत्रेण कर्मफलगोचराभिप्राय एव चतुर्थ्यर्थतया सूचितः चतुयर्थस्य प्रोत्यादर्जनकत्वेन तदिच्छाया वा स्वोदेश्य जनकत्वेन संबन्धेन क चिद्धात्वर्थफलऽन्वय: यथा ब्राह्मणाय गां ददातीत्यत्न यथा वा यदग्नये जुहोतीत्यत्र अग्निप्रीतेस्तदिच्छाया वा होमफले वह्निसंयोगे वृक्षायोदकं सिञ्चतीत्यत्र वृक्षपुष्टस्तदिच्छाया वा जलस्य संयोगे विप्रायान्नं निर्वपतीत्यत्र विप्रभोजनस्य तदिच्छाया वाऽन्नविवित्तौ खण्डिकोपाध्याय: शिष्याय चपटां ददातीत्यत्र
0
.
Aho! Shrutgyanam