________________
विभक्त्यर्थनिर्णये।
२४९ एवं पाणिना कुणिरित्यत्र कुणिपदार्थः कुकरत्वं तच्च करहयप्रयोज्यकार्यभाववत्वे सति तथाविधकार्ययोग्यपाणिमत्त्वं तथाविधकार्य तु धनुःप्रहरणादितान्त्रिकमुद्रादियोग्यत्वं च पाणः पादवबोध्यम् । हतीयार्थी विकारः स चाङ्गलौगलनादिः एवं प्राणिविकारप्रयोज्य करहयप्रयोज्यकार्याभाववान् तथाविधकार्ययोग्यपाणिमानित्यन्वयबोधः यदि च पाणिभ्यां कुणिरिति प्रयोगस्तदा करहयप्रयोज्यकार्याभाववत्त्वमेव कुणित्वं बोध्यमिति । एवं कार्याभावस्थाङ्गिविकारत्वोपगमे तान्यक्ष्णावधिराणि पन्नगकुलान्यष्टावि"ति प्रयोगस्तत्र बधिरत्वं श्रावण प्रत्यक्षाभावः पन्नगस्याक्षिगोलकं श्रवणेन्द्रियाधिष्ठानं तत्र गोल कावच्छिन्ने श्रोचे शब्दानुत्पादो गोलकस्य विकारस्तृतीयार्थः तस्य प्रयोज्यत्वेन श्रावणाभावेऽन्वयः एवं नेत्राभ्यामन्ध इति प्रयोगोऽपोष्ट एव चाक्षषाभावे अन्धवे नेत्रदयविकारस्य प्रयोज्यतयाऽन्वयः । एवं नासिकया नातेत्यत्र नासिकाया विकारः प्राणसन्निकर्षप्रयोजकनिर्गमप्रतिबन्धकः कफादिः क चिट् घ्राणनाशश्च तस्य प्रयोज्यत्वेन ब्राणजाभावेघाटत्वान्वयः । एवं जिव्हया रसवितेत्यत्र रसननिगमप्रतिबन्धको रोगादिः क चिद्रसननाशः क्व चित् खनाशश्च जिव्हाया विकारस च रासनाभावारसयिटत्वेऽन्वेति एवं त्वचाऽस्टशकइत्यत्र त्वचश्चर्मणो विकारः स्पर्शनेन्द्रियनिगमप्रतिबन्धको गजचर्मादिरोगः क चित्स्पर्शननाशश्च स च प्रयोज्यत्वेन स्मार्शनाभावेऽस्पृशकत्वेऽन्वेति । एवं श्रोत्रण वधिर इत्यत्र श्रीचं कर्णशष्कुलौ तस्याः खावच्छिन्ने न
३२
Aho! Shrutgyanam