________________
२४६
तृतीयाविभक्तिविचारः। त्वं च चाक्षुषप्रागभावस्य बोध्यमिति । यहा तथाविधप्रयत्नाप्रयोज्यत्वं चाक्षुषाभावे विशेषणं तत एव निमौलितकलोचने नातिप्रसङ्गः यदि च रोगविशेष कुपथ्यभोजनादिना पुष्पकाद्युत्पत्तिस्तदा गोलकविकाराप्रयोज्यत्वं प्रयत्ने विशेषणमतो नाप्रसङ्गः उभयघट. कत्वं च चाक्षुषप्रागभावस्य चाक्षुषयोग्यत्वस्य वा योग्यत्वं च चक्षनिर्गमावरोधकशून्यच्छि द्रवत्वे सति चक्षः संयोगिगोलकत्वं गोलके तथाविधगोलकसमवेतत्वं शरीरे बोध्यमवच्छेदकतासंवन्धन शरीरे ज्ञानादेहत्यादान्न चाक्षुषप्रारभावहानिरतः सुप्ते काणे न काणपदाप्रयोगः योग्यत्वस्य घटकत्वे तु मृते ऽपि काणे शरीरस्य थावन्न सोफः शोषो बा तावत्काण पदप्रयोगो निष्प्रत्यूह एव तद्गोलकव्यक्तः सत्त्वात् सोफशोषयोरनन्तरं तत्र । काणशब्दो गौण इति एवं गोलकविकाराप्रयोजकयत्नाप्रयोज्यगोलकदयप्रयोज्यचाक्षुषाभाववत्त्वे सति चचर्निर्गमावरोधकशुन्यच्छिद्रवञ्चक्षुःसंयोगिगोलकसमवेतः काणपदार्थ: एवं तृतीयार्थी विकार: प्रयोज्यत्वेन दर्शितचाक्षुषाभावेऽन्वेति स च विकारः क चिह्नोलकनाश: यहलादुत्खातैकगोलके क चिच्चचर्नाश: यदलात्प्रसन्नैकचाक्षषाप्रयोजकगोलके मांसयितैकगोलके च क चित्युत्ष्मकादिः यदलात्पुष्पकादिमदेकगोलके काण पदस्य प्रयोगः न च पुष्पकादिनो चक्ष र्नाश एवेति वाच्यं पुष्पकाद्यपनये चाक्षु षानुत्पत्तिप्रसङ्गात् न च तव पुष्पकाद्यपनायकेन चक्षु रन्तरोत्पाद इति वाच्यं च च र्नाशचक्षु रन्तरतदुत्पत्तिप्रागभावनाशानां क
Aho! Shrutgyanam