SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ विभक्त्यर्थनिर्णये । २४३ ति तयोश्च घटितघटकभावो दर्शित एवेति शेवालेन सह जलेन संयुज्यत बकः वामतटेन सह दक्षिणतटेन संयुज्यते नदोत्यादौ तृतीययोर्जन्यत्वलक्षणं हेतुत्वमर्थः न तु प्रतियोगित्वमर्थो बाधात् न वाऽऽवेयत्वं साक्षात्संसगविच्छिन्नाधेयत्वस्य धात्वर्थान्वयाव्युत्पत्तेः एकक्रियाप्रयोज्यत्वं सहार्थः एवं शैवालजन्यसंयोगप्रयोजक क्रियाप्रयोज्यजलजन्यसंयोगाश्रयो बक इति शाब्दबोधः । न चात्र समानकालिकत्वं सहार्थः तथासति वायुना सह शैवालेन सह संयुज्यते वक इति प्रयोगप्रसङ्गात् सहाथें प्रयोज्यत्वप्रवेशात् शाखया सह वृक्षेण संयुज्यते कपिरित्यत्राप्युपपत्तिः । एवमन्यादृशोऽपि सहार्थः सुषोभिहृद्यः । इत्थं च‘सहयुक्त प्रधाने" इति सूत्रस्य सहार्थयोगे प्रधानक्रियान्वयिविभक्त्यर्थसजातीये गुणक्रियान्वयिन्यर्थे तृतीया भवतीत्यर्थः सहशब्द तुल्यार्थाः साकं सार्धं समंशबदा बोध्याः । अङ्गविकारार्थिकां तृतीयां ज्ञापयति । "येना ङ्गविकार" इति सूत्रम् । अस्यार्थः काशिकावृत्तौ अङ्गशदो समुदायिनि शरीरे वर्तते येनेति तदवयत्रो हेतुत्वेन निर्दिश्यते येनाङ्गेन विकृतेनाङ्गिनो विकारो लक्ष्यते ततस्तृतीया विभक्तिर्भवति इति लक्ष्यत्वं प्रयोज्यत्वे वि कृतस्य प्रयोजकत्वं विशेष्ये बाधे विकारे विशेषणे पर्यवस्यति तथा चावयवस्य प्रकृत्या लाभात्तृतीयाया विकारोऽर्थः यथा अणा काण इत्यत्र चाक्षुष प्रयोजकगोलकवाभाववान् तथाविधगोलकवान् कायपदार्थ: गोलकस्य वच्छिद्रद्दारा चक्षुषो निर्गमेण संनिकर्ष सम्पादनेन चाक्षुप्रयोजकत्वं चक्षुषो गोलकान्तर्वर्तित्वात् न तु Aho ! Shrutgyanam
SR No.034214
Book TitleVibhakatartha Nirnay
Original Sutra AuthorN/A
AuthorGirdhar Jha, Jivnath Mishra
PublisherChaukhambha Sanskrit Series Office
Publication Year1902
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size524 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy