________________
२४१
विभक्तार्थनिर्णये । व्यासज्यत्तित्वस्यान्यत्र दूषितत्वादिति कारणताया निरूपकावन्वयव्यतिरेकौ तदवच्छेदकत्वनिरूपकाविति बोध्यम् । क्व चिदभेदोऽपि सहार्थः यथा पटेन सह घटं साक्षात्करोतीत्यव तृतीयाद्दितौययोः कर्मत्वमर्थः तच्चाधेयत्वं सहार्थस्याभेदस्य विशेषणे तृतीयार्थविशेषे धात्वर्थे द्वितीयार्थोऽन्वेति । एवं वटवृत्तिलौकिक विषयताकसाचात्काराभिन्नघटवृत्तिलौकिकविषयताकसाचात्काराश्रयत्वं वाक्यार्थः न चात्र समानकालिकत्वं सहार्थः तथासत्यव्यवहितज्ञानभेदेन तथाप्रयोगप्रसङ्गात् न चेष्टापत्तिः तथासति रूपेण सह गन्धं साक्षात्करोतीति प्रयोगप्रसङ्गादिति । जात्या सह व्यक्ति घटत्वेन सह घटं वा जानातीत्यत्र सामग्रीघटक सामग्रीकत्वं सहार्थ: जातिवृत्तिविषयताकज्ञानसामग्री घटकव्यक्तिष्टत्तिविषयताकज्ञानाश्रयत्वं घटत्वष्टत्तिविषयताकज्ञानसामग्रीकघटष्टत्तिविषयताकज्ञानाश्रयत्वं च वाक्यार्थः न चात्र समानकालिकत्वमभेदो वा सहार्थस्तथासति जात्या सहाभावं घटत्वेन सहे पटं वा जानातीतिप्रयोगप्रसङ्गात् जात्यभावयोर्घटपटयोश्च समूहालम्बनसम्भवात् प्रत्यक्षे व्यकौन्द्रियसन्निकर्षो जातीन्द्रियसन्निकर्षघटक: चनुमितौ व्यापकताया ज्ञानं तदवच्छेदकत्वज्ञानघटक शाब्दबोधे पदार्थस्योपस्थितिस्तदवच्छेदको पस्थितिघटिकाप्रयोजिकेति घटकत्वं व्यापकत्वमिति प्रमायामोह सामग्री सम्भवति न तु भ्रमे श्रत एव भ्रमस्थले घटत्वेन सह पटं जानातीति सहपदघटितो न प्रयोगः किं तु सहपदशून्य एवेति । जात्या सह व्यक्तिं भासते इत्यत्र भासते
३१
Aho ! Shrutgyanam