________________
२३८
तृतीयाविभक्तिविचारः। धं विनैव शाब्दबोधः पानधारणोभयकर्मत्वान्वयोग्यार्थकस्य पय इत्यादिहितीयान्तपदस्य तहटिताकाङ्क्षायाश्च विरहान्न कर्मत्वान्वयबोध इति गुरुचरणदर्शिता रीतिरिति । दर्शितेषु श्लेषस्थलीयसहोत्यलङ्कारेषु एकानुपूर्वीकशब्दप्रतिपाद्ययोरथ योस्सर्वत्र तादात्म्यं व्यञ्चनया प्रतीयते वैयचनिकवीधे बाधो न विरोधौ अत एव "सकलकलं पुरमेतज्जातं संप्रति सुधांशुबिम्बमिवे"त्यत्र कलकलसाहित्यकलासाकल्ययोरभेदाध्यवसाये साधारणधर्मोपपत्त्योपमाप्रतीति: तथा च पानधारणयोस्तादोम्याध्यवसायनैक्ये सहाविशेषणविशेष्ययोरेकजातीयक्रिययोः क्षौरनौरयोस्तादाम्याध्यवसायादेक जातीयककर्मत्वान्वयः सागरकतत्वस्य विशेषणे विशेष्ये तिङथं कर्तुः तत्र शिशोरन्वय इति रसविद्याविदः । पयःपदवाच्च लक्षणा पयःपद्वाच्यं कर्मत्वं पानधारणयोरनवेतीति व्यञ्जनाविहेषिणः । “पुमान् स्त्रिये"ति सूत्रस्य खिया सहोतो पुमान् शिष्यत इति व्याख्याने उक्तो कर्म गोऽनभिधानात् कृद्योगप्रयुक्त कर्मत्वार्थकषष्ट्यन्तं पुंस इति पदमध्याहार्यमथ वा प्रधाने शिष्धात्व शक्तिमत: पुंसो गुणे वच्धात्वर्थे उक्तौ शक्तिरनुक्ताऽपि प्रतीयते यथा आइय ब्राह्मणाय ददातीत्यवानुक्तमपि ब्राह्मणकर्मत्वमावहाने प्रतीयते । तदुक्तम् ।
प्रधानविषया शक्तिः प्रत्ययेनाभिधीयते । गुणे यदा तदा तदनुक्ताऽपि प्रतीयते ॥ इति तथा च अनुक्तमपि कर्मत्व पदाध्याहारे प्रकारतया अपरथा पुंसोऽन्वये संसर्गतयोक्तौ भासत इति न
Aho! Shrutgyanam