________________
રરર
विभत्त्यर्थनिर्णये । पिता, कन्यया सह रमणीयो वर इत्यत्र पदार्थयोः स्टालरमणीययोस्तादात्म्येन पितृवरान्वयिनोः महार्थे विशेणतया विशेष्यतया वाऽन्वयः विशेषणत्वापन्नयोस्तयोस्ततौयार्थोऽभेदोऽन्वेति एवं पुत्राभिन्नस्थलसमानकालिकस्थल: पितेति कन्याभिन्नरमणीयसमानकालिकरमणोयो वर इति चान्वयबोधो भवति स्थूलयो रमणीययोश्च समानकालिकत्वे भासमाने स्थूलत्बयो रमणीयत्वयोश्च समान कालिकत्वं भासते विशिष्टान्वयवोधसामग्रीबलादिति चेत् एवमन्वयोपगमेऽपि नाभिमत निर्वाह: सहार्थविशेषणतावच्छेदकयोः स्थूलत्वरमणीयत्वयोः “समानकालिकत्वभानायोगात् विशिष्टान्वयस्थले हि यधर्मविशिष्ट विशेषणस्यान्वयस्तत्र विशेष्येऽवाधेऽबाधेपि वा सति तद्धर्मविशेषणस्यान्वयो भवति यथा शिखौ विनष्ट इत्यत्र विनष्टतादात्म्यं शिखायां यथा वा भूवादिर्धातुरित्यत्र तादात्म्यं भुव्यप्यन्वेति न तु विशेषणतावच्छेदके विशेष्यस्य क्वाप्यन्वयः व्युत्पत्तिविरहात् न च मास्तु विशेषणतावच्छेदके स्थलत्वे समानकालिकत्वान्वय इति वाच्यम् । तथा सति कालान्तरेण स्थूलेऽपि पुत्र तथाविधप्रयोगप्रसङ्गात् यदपि सहार्थततौयार्थयोरेकदेशान्वयो न व्युत्पन्न इति । तदपि न सुन्दरम् । एकदेशान्वयस्यावश्यकत्वात् तथा हि पुत्रेण सह गोमान् पितेत्यत्र पुत्राभिन्नगोमतः समानकालिकत्वं गोमति भासते चेत्तहि पुत्रस्य गवान्तरस्वामित्वेऽपि तथा प्रयोगप्रसङ्गः दर्शितान्वयस्य तावतापि सम्भवात् तस्मात्सहाथविशेषणत्वापन्ने मतुबर्थतावच्छेदके स्वामित्वेऽन्वयिता
Aho! Shrutgyanam -