________________
રરર
तृतीयाविभक्तिविचारः। हेति न प्रमाणं प्रमाणं च शिष्येण सहाचार्यस्य गौ: अत्र तृतीयार्थः स्वत्वं सहार्थः सामानाधिकरण्यं षष्यर्थः स्वत्वं तृतीयाथैस्य सहाथै तस्य च षध्यर्थे तस्य गव्यन्वयः एवं शिष्यस्वत्वसमानाधिकरणाचार्यस्वत्ववती गौरित्यन्वयबोधः क्व चित्मबन्धमा हतीयार्थः यथा वजेगा सहेन्द्र इत्यत्र संयोगः सहार्थः प्रतियोगित्वं तृतीयार्थः एवं वजप्रतियोगिताकसंयोगवानिन्द्र इत्यन्वयबोधः गधेन सह पृथिवौत्यत्व सहार्थ: समवायः शेषं पूर्ववत् । एवं दक्षिणाभिः सहेत्यहमित्यत्व सहाथ: संबन्ध इति नापरामृष्टे यजे दक्षिणाप्रतियोगिताकोऽन्वेति यजस्थाहंपदार्थे प्रयोक्तरि भगवति तादात्म्यान्वयः दक्षिणाया यज्ञे संवन्धस्तु विहितकालिकस्वविषयकत्यागप्रयोज्यप्रतिष्ठावत्वं प्रतिष्ठा तु फलजनकत्वमिति एवं मुट्रया सह कुण्डली देवदत्त इत्यत्र टतीयार्थः संबन्धः स चाव संयोगः सहार्थः समानकालिकत्वं तच्च काल एव तस्य इन्प्रत्ययार्थैकदेशे संबन्धेन्वयः इत्थं मुद्रासंयोगसमानकालिककुण्डलसंयोगवान् देवदत्त इत्यन्वयबोधः यदि च तिर्थविशेषणधात्वर्थस्येव तद्धितार्थविशेषणतदर्थतावच्छेदकसंबन्धादेः पुत्रेण सह स्थूल: पितेत्यादौ नामार्थतावच्छेदकस्य विशेषणस्य स्थूलत्वादेः सहाथै विशेष्यतया विशषणतया वाऽन्वयोऽभ्युपेयते तदा टतीयायाः संवन्धान्वयि स्थूलत्वान्वयि चाधेयत्वमर्थः तृतीयातार्थविशेषितयोः संबन्धस्थूलत्वयोः सहार्थे विशेषणत्वमिति । ननु सहपदस्य तृतीयायाश्चार्थस्य पदार्थकदेशान्वयो न युज्यतेऽव्युत्पत्तेः किं तु पुत्रेण सह स्थल:
Aho ! Shrutgyanam