________________
तृतीयाविभक्तिविचारः ।
नसाधारणो धर्मः भवति च सतो जातिः प्रकृतिरियादी जात्यादिस्तथा असाधारण्यविशेषणात् घटस्य
जातिर्वा प्रकृतिरिति न प्रयोगः प्रयोगस्तु कम्बुप्रवादिमत्वं प्रकृतिरिति । जलस्य शैत्यं पृथिव्या गन्धतेजस औष्ण्यं प्रकृतिरित्यादौ शैत्यगन्धण्ण्यानां संग्रहाय स्थलकालावच्छिन्नत्वं स्वाश्रयनिष्ठात्यन्ताभावे विशेषणं देयमिति । यदि च संयोगो द्रव्यस्य मत्सरः खलस्य चैतन्यमात्मन: प्रकृतिरित्यादिप्रयोगस्तदा देशानवच्छिन्न विशेषणतया स्वाश्रये स्थलकालावच्छेदेन वर्तमानस्यात्यन्ताभावस्य प्रतियोगितानवच्छेदकधर्मवानसाधारणो धर्मः प्रकृतिरिति द्रव्ये वृचादौ मूलाद्यवच्छेदेन संयोगस्य खले मत्सरस्य आत्मनि ज्ञानस्य घटाद्यवच्छेदेन स्थूलकालावच्छेदेन वर्तमानोऽप्यत्यन्ताभावो न देशानवच्छिन्नविशेषणतयाऽस्तीति नासंग्रहः । वस्तुतस्तु भूयः कालिकस्वाश्रयनिरूप्यसत्तावांस्तादृशो धर्मः प्रकृतिस्तावतैव सर्वसामञ्जस्यात् यदि च पृथिवत्रा गन्धप्रागभावो रक्तप्रागभावो वा गन्धनाशो रक्तनाशी वा प्रकतिरिति न प्रयोगस्तदा स्वसंवन्धिनि प्रतियोगिजातौयासमानकालिकस्य विद्यमानस्य नाशस्य प्रागभावस्य चाप्रतियोगी तादृशो धर्मः प्रकृतिरिति तथाविधनाथप्रागभावप्रतियोगिनी प्रागभावनाशौ न तथासं योगमसरज्ञानानां नाशप्रागभावे स्वसंवन्धिनि विद्यमानौ न प्रतियोगिजा तौयासमानकालिकाविति न तेषामसंग्रहः । यद्दा स्वसंबन्धित विच्छेदकसमनियतो धर्मः प्रकृतिः समनियमघटकक्ग्रापकत्वद्दये प्रतियोगिवैयधिक
૨૦૯
Aho ! Shrutgyanam