________________
१८८
द्वितीयाविभक्तिविचारः ।
66
लं तु कुतोऽध्यागच्छति कुतः पयोगच्छति इत्यव गतिर्गतावितिसूत्रण विहितस्य गतावाङादौ परतो गतेरध्यादेर्निघात वरस्याभावो गतिसंज्ञाबाधादिति । "मुः पूजायाम्" इति सच पूजायां धात्वर्थे सुरुक्तसंज्ञः स्यादित्यर्थकमवापि निरर्थकत्वान्न द्वितीया संज्ञाफलं तु सुमितं श मोरित्यव षत्वाभाव उपसर्गसंज्ञाबाधादिति" अतिरतिक्रमणे च" इति सूत्रमतिक्रमणे पूजायां चार्थे द्योत्येऽतिरुक्तसंज्ञस्यादित्यर्थकं तत्संयोगासमानाधिकरणतत्संयोगध्वंसोऽतिक्रमणं सामानाधिकरण्यमेककालावच्छिन्नंबोध्यं पूजा प्रीणनं तच प्रीतीच्छा तथा चाति पर्वतंसार्थः श्रतिदेवान् कृष्ण इत्यवातिक्रमणं प्रीणनं च द्वितीयार्थस्तव तत्तत्संमर्गावच्छिन्नाधेयत्वेन सम्बन्धेन प्रकृत्यर्थस्यान्मयोऽतिक्रमणं सार्थं प्रीणने कृष्णोऽन्वेति एवं पर्वतवृत्तिर्यः पर्वतसंयोगासमानाधिकरणः पर्वतसंयोगध्वंसस्तद्दान् सार्थ दूति देवसमवेता या प्रीतीच्छा तद्विषय: कृष्ण इति चान्वयवोधः काशिकायां तु निपन्नेऽपि वस्तुनि क्रियाप्रवृत्तिरतिक्रमणम् अतिसितमेव भवता अतिस्तुतं भवता पूजायाम् अतिसिद्धं भवता प्रतिस्तुतं भवता शोभनं कृतं भवतेत्युक्त तचेदृशमप्यतिक्रमांतद्द्योतकस्य पूजाद्योतकस्य चातेः कर्मप्रवचनीयतया तद्योगे द्वितीयाविनाकृतदर्शित प्रयोगे षत्वाभाव इत्येव हृदयं न तु पूर्वप्रदर्शितोदाहरणे द्वितीयायाम् असाधुत्व - रत्वमिति । "अपि पदार्थसम्भावनाऽन्ववसर्गगर्दासमुच्चयेषु इति सूत्रं पदार्थादिषु द्योत्येषु अभिरुक्तसंज्ञः स्यादित्यर्थक पदार्थे यथा सर्पिषोऽपि स्यात् इत्यच तिङर्थंस
Aho ! Shrutgyanam